खगगति (khagagati)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaखगगति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಕ್ಷಿಗಳ ಗಮನ /ಹಕ್ಕಿಗಳ ಹಾರಾಟ /ಹಕ್ಕಿಗಳಸಂಚಾರ
व्युत्पत्तिः - > खगानां गतिः
वाचस्पत्यम्
Sanskritखगगति स्त्री० ६ त० । पक्षिणां गमने तद्भेदाश्च भा० क०४१ अ० दर्शिताः यथा“शतगेकञ्च पातानां पतितास्मि न संशयः । शतयोजन-मेकैकं विचित्रं विविधं तथा ॥
उड्डीनमवडीनञ्चप्रडीनं डीनमेव च । निडीनमथ सण्डीनं तिर्यक्डीनगतानि च । विडीनं परिडीनञ्च पराडीनं सुडीन-कम् । अभिडीनः महाडीनं निर्डीनमतिडीनकम् ॥
अवडीनं प्रडीनञ्च संडीनं डीनडीनकम् । संडीनो-ड्डीनडीनञ्च पुनर्डीनविडीनकम् ॥
सम्पात समु-ड्डीनञ्च ततोन्यद्व्यतिरिक्तकम् । गतागतं प्रतिगतंबहुधा निकुलीनकाः” ॥
विवृतमेतत् नीलकण्ठेन यथा“पातानां शतमेकं गणयति उङ्डीनमित्यादिना“उडडीन १ मूर्द्धगमनमवडीन २ मधोगतिः । प्रडीनं ३ सर्वतोयानं डीनं ४ गमनमात्रकम् । निडीनं ५ शनकैर्यानं संडी-नं ६ ललितं गतम् । तिर्यग्डीनं गतं प्राहुस्तिरःप्रचरणंबुधाः । तान्याशाभेदभिन्नानि चत्वारि प्रतिजानते । तानि(तिर्यग्डीनानि ४) १० । विडम्बितं विडीनं ११ स्यात्परिडी-नन्तु १२ सर्वतः । पश्चाद्गतः पराडीनं १३ स्वर्गगन्तु सुडीन-कम् १४ । आभिमुख्येन गमनमभिडीनं १५ प्रचक्षते ।यानं महाडीन १६ माहुः पवित्रामूर्जितां गतिम् ।निर्डीनं १७ निश्चलं यानं प्रचण्डमतिडीनकर १८” ।(विड म्बतं मल्लवदुड्डीयोड्डीयगमनम्) । अवरोहो-वडीनं १९ स्यात् प्रडीनं २० चित्रमुच्यते । गत्या ललितयापूर्वमुपक्रम्य समन्ततः । परिक्रम्य प्रपतनं संडीनं २१डीनडीनकम् २२ । (समततः प्रपतनं, संडीनं परिक्रम्यप्रपतनं डीनडीनकमित्यन्वयः) संडीनोड्डीनडीनंस्यात्तदेवोर्द्धप्रकल्पनात् २३ । गतौ गत्यन्तरेद्भेदो भवेड्-डीनविडीनकम् २४ ॥
क्षणात् संगत्य निष्क्रम्य पक्षसंपात-२४ मुच्यते । ऊर्द्ध्वावोगतिसंभेदः समुड्डीनं २५ प्रचक्षते ।संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् २६ । षड्विंशति-रमी भेदाः पातानामिह दर्शिताः । महाडीनं विहा-यैषां पातानां त्रिविधा गतिः ७५ । गतन्तत्र यथोद्दिष्ट-मागतं पुनरागमः । प्रत्यावृत्तिः प्रतिगतिरितिषट्सप्ततिः ७६ स्मृताः । (गतागतप्रतिगतिभेदाद्गतित्रे-विध्यम्) । तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविं-शतिः” १०१ । (निकुलीनकाः निपाताः) । २ ग्रहाणांगतौ च ।तत्र ग्रहभेदे गतिभेदाः सृ० सि० सकारणम् उक्तायथा“अदृश्यरूपाः कालस्य मूर्त्तयो भगखाश्रिताः । शीघ्र-मन्दोच्चपाताख्या ग्रहाणां गतिहेतवः” ॥
तद्वातर-श्मिभिर्बद्धास्तैः सव्येतरपाणिभिः । प्राक् पश्चादपकृष्यन्तेयथासन्नं स्वदिड्मुखम् ॥
प्रवहाख्यो मरुत् तांस्तुस्वोच्चाभिमुखमीरयेत् । पूर्वापरापक्वष्टास्ते गतिं यान्तिपृथग्विधाम् ॥
ग्रहात् प्राग्भगणार्द्धस्थः प्राङ्मुखंकर्षति ग्रहम् । उच्चसञ्ज्ञोऽपरार्द्धस्थस्तद्वत् पश्चान्षुखंग्रहम् ॥
स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्-ग्रहाः । तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु ॥
दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा । विक्षि-पत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥
उत्तराभिमुखंपातो विक्षिपत्यपरार्द्धगः । ग्रहः प्राग्भगणार्धस्थोयाम्यायामपकर्षति ॥
बुधभार्गवयोः शीघ्रात् तद्वत्घातो यदा स्थितः । तच्छीघ्राकर्षणात् तौ तु विक्षिप्येतेयथोक्तवत् ॥
महत्त्वान्मण्डलस्यार्कः स्वल्पमेवाष-कृयते । मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते ॥
भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दीच्चसञ्ज्ञकैः । दैवतैर-पकृव्यन्ते सुदूरमतिवेगिताः ॥
अतो धनर्णं सुमहत्तेषां गतिवशाद्भवेत् । आकृष्यमाणास्तैरेवं व्य म्नि यान्त्य-निलाहताः ॥
वक्रानुवक्रा कुटिला मन्दा मन्दतरासमा । तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥
तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ।ऋज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा” सू० सि० ॥
वक्रानुवक्रेत्यादिकं रङ्गनाथेन विवृतं यथा ।“भौमादिग्रहाणां विरविचन्द्राणामष्टप्रकारा गतिः ।फलिता । तत्र वक्रेत्यादिसमेत्यन्तं षट्प्रकारा गतिःशीघ्रतरा शीघ्रेति गतिद्वयम् । तथा समुच्चये । आसांस्वरूपज्ञानमग्रे स्फुटम् । अथैनामष्टधा गतिं भेद-द्वयेन क्रोडयति । तत्राष्टविधगतिष्वतिशीघ्रेत्यादिसमे-त्यन्ता इत्येवं पञ्चधा गतिः । ऋज्वी मार्गी गतिर्ज्ञेयाया गतिः सानुवक्रगानुवक्रगमनेन सह वर्त्तमाना पूर्व-श्लोकेऽनुवक्रगतेर्वक्रकुटिलमध्याभिधानादुभयथासन्नत्वाच्च व-क्रानुबक्रा कुटिलेति गतिर्वक्रा ज्ञेया तथा च ग्रहाणांमार्गी वक्रेति गतिद्वयम्” ॥
शैघ्रमान्द्यादिप्रकारस्तुतत्रैव दृश्यः विस्तरभयान्नोदाहृतः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
