| YouTube Channel

खकक्षा (khakakSA)

 
वाचस्पत्यम्
Sanskrit
खकक्षा स्त्री सूर्य्यरश्मिप्रचारावधिके वेष्टनाकारेब्रह्माण्डसुषिरे गगनपरिधौ सि० शि० तत्परिमाणमुक्तं यथा “कोटिध्नैर्नखनन्दषट्कनखभूमूभृद्भजङ्गेन्दुभि१८७१२०६९२०००००००० र्ज्योतिःशास्त्रविदो वदन्तिनभसः कक्षामिमां योजनैः तद् ब्रह्माण्डकटा-हसंपुटतटे केचिज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्य-दृश्यकगिरिं पौराणिकाः सूरयः करतलकलिता-मलकवदमलं सकलं विदन्ति ये गोलम् दिनकरकर-निकरनिहततमसो नभसः परिधिरुदितस्तैः” मू० ।“एभिर्योजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधिं वदन्ति ।तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽ-हर्पतिद्युतियुजो नभसः परिधेरिदं वदन्ति अत एवपौराणिका गणकास्ते ब्रह्याण्डपरिधिं वदन्ति केचि-ल्लीकालोकं वदन्ति यतस्तदन्तर्वर्त्तिन एवार्करश्मयः ।एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्य-त्वात् करतलकलितसकलब्रह्माण्डगोला एवं वक्तुंशक्नुवन्ति इदानीं स्वमतमाह” प्रमि० “ब्रह्माण्डमेत-न्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतंनः” मू० इदानीं ग्रहक्षका आह “ग्रहस्य चक्रै-र्विहृता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम् ग्रहःखकक्षामितयीजनानि भ्रमत्यजस्रं परिवर्त्तमानः” मू० ।“सा खकक्षा यस्य यस्य भगणैर्ह्रियते तस्य तस्य ग्रहस्यकक्षामितिर्लभ्यते अस्योपपत्तिरूपं श्लोकस्योत्तरार्ध-मिति यतः स्वकक्षाया ग्रहो भ्रमन्नजस्रं परिवर्त्तमानःखकक्षामितानि योजनानि पूरयति अतो ग्रहभगणैःभक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामितिरित्यु-पपन्नम्