| YouTube Channel

कॢप्तः (klRptaH)

 
शब्दकल्पद्रुमः
Sanskrit
कॢप्तः, त्रि, कल्पनार्थकृपधातोः कर्म्मणि क्ते कॢपादेशः ।नियतः कृतकल्पनः कल्पनं सामर्थ्यं तद्विशिष्टः ।यथा, “अवश्यकॢप्ताभिः पर्व्वतत्वचत्वरत्वादितत्तद्ध-र्म्मावच्छिन्नाधिकरणताव्यक्तिभिरेवोपपत्तौ” इतिजगदीशः
(यथा, मनौ ११ २७ ।“इष्टिं वैश्वानरीं नित्यं निर्व्वपेदब्दपर्य्यये ।कॢप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे”
)