| YouTube Channel

क्ष्वेली (kSvelI)

 
Shabdartha Kaustubha
Kannada
क्ष्वेली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕ್ರೀಡೆ /ಆಟ
निष्पत्तिः - > क्ष्वेल - गौरा० "ङीष्" (४-१-४१)
प्रयोगाः - > "क्ष्वेल्यावलोकहसितैर्व्रज्रसुन्दरीणामुत्तम्भयन् रतिपतिं रमयाञ्चकर"
उल्लेखाः - > भाग० १०-२९-४६
Tamil
Tamil
க்ஷ்வேலீ : பரிகாசம், கேலி, விளையாட்டு.
शब्दकल्पद्रुमः
Sanskrit
क्ष्वेली,
स्त्री,
(क्ष्वेल + गौरादित्वात् ङीष् ।)क्रीडा यथा, श्रीभागवते १० २९ ४६ ।“बाहुप्रसारपरिरम्भकरालकोरु-नीविस्तनालभननर्म्मनखाग्रपातैः ।क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-मुत्तम्भयन् रतिपतिं रमयाञ्चकार
”“बाहुप्रसारश्च परिरम्भश्च करालकादीनामा-लभनं स्पर्शश्च नर्म्म परिहासश्च नखाग्रपातश्चतैः क्ष्वेल्या क्रीडया अवलोकैश्च हसितैश्चकामं तासां उद्दीपयन् ता रमयामास ।” इतितट्टीकायां श्रीधरस्वामी
*
अत्र क्ष्वेल्यमितिप्रमादात् केनचिल्लिखितम्