| YouTube Channel

क्ष्णावना (kSNAvanA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्ष्णु तेजने”@} 2 क्ष्णावकः-विका, क्ष्णावकः-विका, 3 चुक्ष्णूषकः-षिका, 4 चोक्ष्णूयकः-यिका
क्ष्णविता-त्री, क्ष्णावयिता-त्री, चुक्ष्णूषिता-त्री, चोक्ष्णूयिता-त्री
5 क्ष्णुवन्-ती, क्ष्णावयन्-न्ती, चुक्ष्णूषन्-न्ती
-- क्ष्णविष्यन्-न्ती-ती, क्ष्णावयिष्यन्-न्ती-ती, चुक्ष्णूषिष्यन्-न्ती-ती
-- 6 संक्ष्णुवानः 7, क्ष्णावयमानः, संचुक्ष्णूषमाणः, चोक्ष्णूयमानः
संक्ष्णविष्यमाणः, क्ष्णावयिष्यमाणः, संचुक्ष्णूषिष्यमाणः, चोक्ष्णूयिष्यमाणः
8 प्रक्ष्णुत्-प्रक्ष्णुतौ-प्रक्ष्णुतः
-- -- -- 9 10 क्ष्णुतम्-तः 11, क्ष्णावितः, चुक्ष्णूषितः, चोक्ष्णूयितः-तवान्
क्ष्णवः, क्ष्णावः, चुक्ष्णूषुः, चोक्ष्णुवः
क्ष्णवितव्यम्, क्ष्णावयितव्यम्, चुक्ष्णूषितव्यम्, चोक्ष्णूयितव्यम्
क्ष्णवनीयम्, क्ष्णावनीयम्, चुक्ष्णूषणीयम्, चोक्ष्णूयनीयम्
12 क्ष्णव्यम्, 13 अवश्यक्ष्णाव्यम्, क्ष्णाव्यम्, चुक्ष्णूष्यम्, चोक्ष्णूय्यम्
ईषत्क्ष्णवः-दुःक्ष्णवः-सुक्ष्णवः
-- -- 14 क्ष्णूयमाणः, क्ष्णाव्यमानः, चुक्ष्णूष्यमाणः, चोक्ष्णूय्यमानः, 15 क्ष्णवः, क्ष्णावः, चुक्ष्णूषः, चोक्ष्णूयः
क्ष्णवितुम्, क्ष्णावयितुम्, चुक्ष्णूषितुम्, चोक्ष्णूयितुम्
16 क्ष्णुतिः, क्ष्णावना, चुक्ष्णूषा, चोक्ष्णूया
क्ष्णवनम्, क्ष्णावनम्, चुक्ष्णूषणम्, चोक्ष्णूयनम्
क्ष्णुत्वा, क्ष्णावयित्वा, चुक्ष्णूषित्वा, चोक्ष्णूयित्वा
प्रक्ष्णुत्य, प्रक्ष्णाव्य, प्रचुक्ष्णूष्य, प्रचोक्ष्णूय्य
क्ष्णावम् २, क्ष्णुत्वा २, क्ष्णावम् २, क्ष्णावयित्वा २, चुक्ष्णूषम् २, चुक्ष्णूषित्वा, चोक्ष्णूयम्
चोक्ष्णूयित्वा २।
प्रासङ्गिक्यः
01
=>
(३२३)
02
=>
(२-अदादिः। १०३७। अक। सेट्। पर।)
03
=>
[[१। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
04
=>
[[२। ‘अकृत्सार्वधातुकयोः’ -- (७-४-२५) इति दीर्घः।]]
05
=>
[[३। ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शपो लुक्। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
06
=>
[[४। ‘समः क्ष्णुवः’ (१-३-६५) इति शानच्।]]
07
=>
[[आ। ‘संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्। ज्योत्स्नायां विगलन्मानस्तरुणो रक्षसां गणः।।’ भ। का। ८-४०।]]
08
=>
[[५। ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
09
=>
[पृष्ठम्०३३७+ २४]
10
=>
[[१। ‘श्र्युकः क्किति’ (७-२-११) इतीण्णिषेधः।]]
11
=>
[[आ। ‘केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्राः। सोऽनूर्णुतोऽद्यौज्जनसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
12
=>
[[२। ‘अचो यत्’ (३-१-९७) इति यत्। गुणावादेशौ।]]
13
=>
[[३। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14
=>
[[४। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
15
=>
[[५। ‘ॠदोरप्’ (३-३-५७) इत्यप्।]]
16
=>
[[६। ‘तितुत्र--’ (७-२-९) इत्यादिना इण्णिषेधः।]]