| YouTube Channel

क्षौरपव्यं (kSaurapavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षौरपव्यं,
क्ली,
(क्षुरैः पविभिर्वज्रैर्निर्म्मितं निर्वृत्त-मिव वा गृहम् ।) क्षुरवज्रतुल्यतीक्ष्णदृढगृहम् ।यथा, श्रीभागवते ।“नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि
”“पञ्चपञ्चानां पञ्चविंशतेः अद्भुतं गृहम् ।क्षौरपव्यं क्षुरैः पविभिर्व्वज्रैश्च निर्म्मितमिवतीक्ष्णं दृढञ्चेत्यर्थः स्वयं स्वतन्त्रम् भ्रमि भ्रमण-स्वभावम् ।” इति तट्टीकायां श्रीधरस्वामी