| YouTube Channel

क्षौद्रमेहः (kSaudramehaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षौद्रमेहः,
पुं,
(क्षौद्रसंज्ञको मेहः ।) प्रमेह-रोगविशेषः मधुमेह इति वैद्यकम् ।) तल्लक्षणंयथा, --“कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ।कषायं कषायवर्णम् ।” इतिभावप्रकाशः
अस्यचिकित्सा प्रमेहशब्दे द्रष्टव्या