| YouTube Channel

क्षौद्रं (kSaudraM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षौद्रं,
क्ली,
(क्षुद्राभिः पिङ्गलवर्णमक्षिकाभिःसरघाभिर्निर्म्मितम् क्षुद्र + “क्षुद्राभ्रमरवटर-पादपादञ् ।” ११९ इति अञ् ।)मधु इत्यमरः १०७
जलम् इतिमेदिनी
पिङ्गलवर्णक्षुद्रमक्षिकाकृतकपिलवर्ण-मघु अस्य गुणाः अतिशीतलत्वम् लघुत्वम् ।क्लेदनाशित्वम् घृतयुक्तक्षौद्रञ्चेद्बिषतुल्यत्वञ्च ।इति राजवल्लभः
अपि ।“माक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतंमधु ।मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्
गुणैर्माक्षिकवत् क्षौद्रं विशेषान्मेहनाशनम्
”इति भावप्रकाशः