| YouTube Channel

क्षौणीमयः (kSauNImayaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षौणीमयः,
पुं,
(क्षौणी + मयट् ।) मृण्मयः ।पृथिव्याश्रयः यथा, --“मत्स्यो युगान्तसमये मनुनोपलब्धःक्षौणीमयो निखिलजीवनिकायकेतः ।विस्रंसितानुरुभये सलिले मुखान्मआदाय तत्र विजहार वेदमार्गान्
”इति श्रीभागवते १२
“मत्स्यावतारमाह मत्स्यो भाविना वैवस्वतेनमनुना दृष्टः क्षौणीमयः पृथ्वीमयः पृथिवी-प्रधानस्तदाश्रय इत्यर्थः अत एव निखिल-जीवनिकायानायाश्रयः मे सुखाद्बिस्रंसितान्गलितान् वेदस्य मार्गान् वेदानादाय तत्रयुगान्तसलिल विजहार हर्षे ।” इति तट्टी-कायां श्रीधरखामी
*
क्षोणीमयोऽपिपाठः