| YouTube Channel

क्षोभिष्यन्-न्ती-ती (kSobhiSyan-ntI-tI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षुभ सञ्चलने”@} 2 ‘क्षुभ्नाति क्षोभते क्षुभ्येत्, इति संचलने क्षुभेः।।’ 3 इति देवः।
अस्य धातोर्दिवादित्वात् शतरि 4 क्षुभ्यन्-न्ती, क्षोभिष्यन्-न्ती-ती
इत्यादीनि रूपाणि।
अन्यानि सर्वाणि रूपाणि भौवादिकक्षोभतिवत् 5, ज्ञेयानि।
‘उदुपधात्--’ 6 इति वैकल्पिककित्त्वं तु नात्र प्रवर्तते।
‘शब्विकरणेभ्य एवेष्यते’ 7 इत्युक्तत्वात्।
प्रासङ्गिक्यः
01
=>
(३१७)
02
=>
(४-दिवादिः-१२३९। सक। सेट्। पर।)
03
=>
(श्लो। १४४)
04
=>
[[आ। ‘ततः क्रोधानिलापातकम्प्रास्याम्भोजसंहतिः। महाह्रद इव क्षूभ्यन् कपिमाह स्म रावणः।।’ भ। का। ९-११८।]]
05
=>
(३१६)
06
=>
(१-२-२१)
07
=>
(भाष्येष्टिः १-२-२१)