| YouTube Channel

क्षैमिक (kSaimika)

 
वाचस्पत्यम्
Sanskrit
क्षैमिक
त्रि०
क्षेमेण निर्वृत्तं ठञ् लब्धस्य रक्षणोप-योगिनि विद्यमानसत्ताकस्य वस्तुनः स्व्यधिकरणे स्वति-शिष्टवुद्धिनियामकसम्बन्धव्यवस्थापननिर्वाह्ये जन्यत्वे ।यथा दुःखात्यन्तामावस्य मोक्षत्ववादिमते अत्यन्ताभाव-स्याजन्यत्वेऽपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधि-करणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूपसम्बन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्यक्षैमिकी तत्त्वज्ञानसाध्यता एवं कृतिसाध्यत्वस्य विध्य-र्थत्वमते “एकादश्यामुपवसेत्” इत्यादौ अहोरात्रभोजनाभावस्य क्षैमिकं कृतिसाध्यत्वम् “भावोयथाऽ-भावः कार्य्यवत् कारणं मतः” इत्युदयनाकार्य्यैरमावमात्रस्यदृष्टान्तविधया कार्य्यत्वोक्तिः क्षैमिकविषया एतेनप्रायश्चित्तविवेकटीकायां श्रीकृष्णतर्कालङ्कारेणात्यन्ता-भावस्य क्षैमिकजन्यत्वस्य निराकरणम् निरस्तम्प्रतियोग्यकालीनस्वरूपसम्बन्धविशेषस्यैवात्यन्ताभावविशि-ष्टबोधनियामकत्वेन तादृशसम्बन्धस्य तत्त्वज्ञानकृत्या-दिनिर्वाह्यत्वान् स्वाधिकरणे सति हि दुःखे भोजनेवा तादृशस्वरूपसम्बन्धाभावात् विशिष्टबुद्धेरनुदयात्तस्य तत्त्वज्ञानादिप्रयोज्यत्वमेवमन्यत्रोहाम्