| YouTube Channel

क्षेमकारः (kSemakAraH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षेमकारः, त्रि, (क्षेमं करोतीति क्षेम + कृ +“कर्म्मणि अण् ।” इति अण् ।)शुभङ्करः इति भूरिप्रयोगः
क्षेमङ्करः ।मङ्गलकर्त्ता यथा, “क्षेमप्रियमद्रात् कुर्व्वा” इतिसूत्रेण क्षेमशब्दात् परस्य कृधातोः खप्रत्यया-भावपक्षे ढात् षण्णिति षण्प्रत्ययेन निष्पन्नः ।इति मुग्धबोधव्याकरणम्
(यथा, भट्टिः ७७ ।“पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम्
”)