| YouTube Channel

क्षेपणं (kSepaNaM)

 
Apte 1890
English
क्षेपणं [क्षिप्-ल्युट्] 1 Throwing, casting, sending, directing &c.
2 Spending (as time).
3 Omitting.
4 Abusing.
5 A sling.
णिः,
णी f. 1 An oar.
2 A net for fishing.
3 A sling or any instrument with which missiles are thrown.
शब्दकल्पद्रुमः
Sanskrit
क्षेपणं,
क्ली,
(क्षिप + भावकर्म्मादिषु ल्युट् ।) प्रेर-णम् तत्पर्य्यायः क्षिपा इत्यमरः ।२ ११
यापनम् यथा, --“विधवा यौवनस्था नारी भवति कर्कशा ।आयुषः क्षेपणार्थन्तु दातव्यं स्त्रीधनं सदा
”इति विवादचिन्तामणिधृतहारीतवचनम्
प्रस्तरादीनां दूरप्रेरणार्थरज्जुनिर्म्मितशिक्यम् ।फिङ्गा इति भाषा यथा, श्रीभागवते १९ ।“प्रववुर्व्वायवश्चण्डास्तमः पांशवमैरयन् ।दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव
”“पांशुकृततमश्च प्रेरितवन्तः क्षेपणैर्यन्त्रैः ।”इति तट्टीकायां श्रीधरस्वामी
(परित्यागः ।यथाह मनुः ११९ ।“उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्
”“उपाकर्म्मणि उत्सर्गे त्रिरात्रमध्ययनक्षेपणम् ।”इति कुल्लूकभट्टः
मल्लयोद्धणां सहसा भूपा-तनरूपनियुद्धकौशलविशेषः यथा, महा-भारते १२ २८ ।“क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ।तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव
”“क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यवनं हटात्
”इति तट्टीकाकृन्नीलकण्ठधृतमल्लशास्त्रम्