| YouTube Channel

क्षेत्रोपेक्षः (kSetropekSaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षेत्रोपेक्षः,
पुं,
स्वफल्कपुत्त्रः इति केचित्
यथा, --“युगन्धरोऽनमित्रस्य वृष्णिः पुत्त्रोऽपरस्ततः ।स्वफल्कश्चित्ररथश्चैव गान्दिन्याञ्च स्वफल्कतः
अक्रूरप्रमुखा आसन् पुत्त्रा द्वादश विश्रुताः ।आसङ्गः सारमेयश्च मृदरो मृदुरिर्गिरिः
धर्म्मवृद्धिः सुकर्म्मा क्षेत्रोपेक्षोऽरिमर्द्दनः ।शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश
”इति श्रीभागवते २४ १४--१६
क्षत्त्रोपेक्ष इति साधुपाठः (तत्र क्षत्त्रेषु क्षत्त्रिय-कुलेषु उपेक्षा यस्य
)