| YouTube Channel

क्षेत्रवत् (kSetravat)

 
शब्दकल्पद्रुमः
Sanskrit
क्षेत्रवत् [द्]
पुं,
(क्षेत्रं शरीरं अहमित्यात्म-त्वेन वेत्ति जानाति इदं सर्व्वशरीरमेवाहमितिआत्मत्वेन मन्यते इत्यर्थः क्षेत्र + विद् +क्विप् ।) क्षेत्रज्ञः जीवात्मा यथा, --“तत्त्वं नरेन्द्र ! जगतामथ तस्थुषाञ्चदेहेन्द्रियासुधिषणात्मभिरावृतानाम् ।यः क्षेत्रवित्तपतया हृदि विष्वगाविःप्रत्यक् चकास्ति भगवांस्तमबैहि सोऽस्मि
”इति श्रीभागवते २२ ३५
“यस्मादनात्मरतिरनर्थहेतुः तत् तस्माज्जगतांजङ्गमानां तस्थुषां स्थावराणाञ्च देहादिभिःआत्मना अहङ्कारेण चावृतानां हृदि यश्चकास्तिप्रकाशते तमवैहि कथं सोऽस्मीति सो-ऽस्तीति पाठे एवैकोऽस्ति ततोऽन्यदसत्इत्यर्थः ननु जीवो हृदि चकास्ति नान्यस्तत्राह ।क्षेत्रविदं जीवं तपति नियमयतीति क्षेत्रवित्तपःतस्य भावस्तत्ता तया अन्तर्यामिरूपेण यद्बाक्षेत्रवित्ते अहं ममतास्पदे पातीति क्षेत्रवित्तपःतेन रूपेण जीवस्तु पारतन्त्र्यान्न पाति ननुकर्म्म जीवं नियच्छति आविः प्रत्यक्षः तर्हिबुद्धिर्न प्रत्यक् प्रतिलोमं चकास्ति बुद्धिस्तुपराक् विषयाकारेण तर्ह्यहङ्कारः विष्वक्आपकत्वेन तु परिच्छिन्नः एवम्भूतो योभगवान् तमवैहीति ।” इति तट्टीकायां श्रीधर-स्वामी