| YouTube Channel

क्षेत्रपालरस (kSetrapAlarasa)

 
Monier Williams Cologne
English
क्षेत्र—पाल—रस
m.
a kind of medicinal drug,
L.
शब्दकल्पद्रुमः
Sanskrit
क्षेत्रपालरसः,
पुं,
(क्षेत्रपाल इति संज्ञा विद्यतेयस्य एव रसः औषधविशेषः ।) ग्रहणीयुक्त-शोथस्यौषधम् दुग्धवटीति ख्यातम् यथा, --“हिङ्गुलञ्च विषं ताम्रं लौहं तालकटङ्गणम् ।जीरमाहूरफेनञ्च समभागं विमर्द्दयेत्
यवार्द्धा वटिका कार्य्या पथ्यं दुग्धौदनं हितम् ।अलवणं वारिहीनञ्च दातव्यं भिषजां वरैः
गुरुशोथमग्निमान्द्यं ग्रहणीमतिदुस्तराम् ।ज्वरञ्च विषमं जीर्णं नाशयेन्नात्र संशयः
”इति भैषज्यरत्नावली
आहूरफेनं अहिफेनम्