| YouTube Channel

क्षेत्रज्ञः (kSetrajJaH)

 
Hindi
Hindi
क्षेत्र का ज्ञाता
Apte Hindi
Hindi
क्षेत्रज्ञः
पुं*
क्षेत्रम्-ज्ञः -
आत्मा
क्षेत्रज्ञः
पुं*
क्षेत्रम्-ज्ञः -
परमात्मा
क्षेत्रज्ञः
पुं*
क्षेत्रम्-ज्ञः -
व्यभिचारी
क्षेत्रज्ञः
पुं*
क्षेत्रम्-ज्ञः -
किसान
Wordnet
Sanskrit
Synonyms:
क्षेत्रज्ञः
noun
एकः राजपुत्रः
"क्षेत्रज्ञस्य उल्लेखः भागवतपुराणे प्राप्यते"
Synonyms:
क्षेत्रज्ञः
noun
एकः राजपुत्रः
"क्षेत्रज्ञस्य उल्लेखः भागवतपुराणे प्राप्यते"
शब्दकल्पद्रुमः
Sanskrit
क्षेत्रज्ञः,
पुं,
(क्षेत्रं शरीरं एतच्छरीरं ममेतिकृत्वा यो जानाति आपादतलमस्तकं ज्ञानेनविषयीकरोति स्वाभाविकेन औपदेशिकेन वेद-नेन विषयीकरोति वा कृषीवलवत् तत्फल-भोक्तृत्वादित्यर्थः ज्ञा + “इगुपधज्ञाप्रीकिरःकः ।”३ १३५ इति कः ।) शरीराधिदैवतम् ।तत्पर्य्यायः आत्मा पुरुषः इत्यमरः ।१ २९
त्रीणि शरीराधिदैवतेऽन्तर्भोक्तरि ।(क्षेत्रेषु सर्व्वदेहेषु सर्व्वान्तर्य्यामितया विराज-मानः सन् “सर्व्वज्ञः सर्व्वशक्तिमान् सर्व्वक्षेत्र-पालयिता” इत्यात्मस्वरूपं जानाति अनुभवतियः प्रज्ञानघनः परमपुरुषः सर्व्वान्तरात्माअसंसारी परमेश्वरः ।) क्षेत्रं शरीरं जाना-तीति क्षेत्रे शरीरे जानाति ज्ञानवान् भव-तीति वा क्षेत्रज्ञः हनजनादिति डः इतिभरतः
तस्य पर्य्यायान्तरम् सुबीजः ४पुरुषः अन्तर्यामी ईश्वरः पुद्गलः ८परसंज्ञकः इति शब्दरत्नावली
प्रधानम्१० इति जटाधरः
*
(उभयतः प्रमाणंयथा, भगवद्गीतायाम् १३ १--२ ।“इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते ।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः
क्षेत्रज्ञञ्चापि मां विद्धि सर्व्वक्षेत्रेषु भारत ।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम
”ईश्वरपक्षे भाष्यकृदर्थो यथा, -- “क्षेत्रक्षेत्रज्ञा-वुक्तौ किमेतावन्मात्रेण ज्ञानेन ज्ञातव्यावितिनेत्युच्यते क्षेत्रज्ञमिति क्षेत्रज्ञं यथोक्तलक्षण-ञ्चापि मां परमेश्वरमसंसारिणं विद्धि जानीहियोऽसौ सर्व्वक्षेत्रेष्वेकः क्षेत्रज्ञो ब्रह्मादिस्तम्ब-पर्य्यन्तानेकक्षेत्रोपाधिप्रविभक्तस्तं निरस्तसर्व्वो-पाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धी-त्यभिप्रायः हे भारत ! यस्मात् क्षेत्रक्षेत्रज्ञे-श्वरयाथात्म्यव्यतिरेकेण ज्ञानगोचरमन्यद-वशिष्टमस्ति तस्मात् क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज्ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेतेतज्ज्ञानं सम्यक्ज्ञानमिति मतं अभिप्रेत-मित्यभिप्रायो मम ईश्वरस्य विष्णोः
अपि चतत्रैव १३ २२ ।“उपद्रष्टानुमन्ता भर्त्ता भोक्ता महेश्वरः ।परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः
”विष्णुः यथा, महाभारते १३ विष्णुसहस्र-नामकीर्त्तने १४९ १५ ।“पूतात्मा परमात्मा मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव
”)वटुकभैरवः यथा, -- “क्षेत्रज्ञः क्षत्त्रियोविराट् ।” इति तस्य स्तोत्रम्
छेकः इतिमेदिनी
विदग्धः कृषकः इति शब्दरत्ना-वली
शेषद्वयार्थे त्रि