क्षेत्रज (kSetraja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishक्षेत्रज (-जः-जा-जं)
1. Produced in a field, (as corn, &c.)
2. Born of
the body, &c.
(-जः) A son, the offspring of the wife by a kins-
man or person duly appointed to procreate issue to the husband.
क्षेत्र wife, and ज born, born of the wife only
this is one of the
twelve kinds of issue acknowledged by the old Hindu law.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishक्षेत्रज
(-जः-जा-जं)
1 Produced in a field, (as corn, &c.)
2 Born of the body, &c.
(-जः) A son, the offspring of the wife by a
kinsman or person duly appointed to procreate issue to the husband.
क्षेत्र wife, and ज born, born of the wife only
this is one of the
twelve kinds of issue acknowledged by the old Hindu law.
Monier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiक्षेत्रज
वि* क्षेत्रम्-ज -
खेत में उत्पन्न
क्षेत्रज
वि* क्षेत्रम्-ज -
शरीर से उत्पन्न
क्षेत्रजः
क्षेत्रम्-जः -
हिन्दूधर्मशास्त्र के अनुसार १२ प्रकार के पुत्रों में से एक
Shabdartha Kaustubha
Kannadaक्षेत्रज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ೧೨ ವಿಧ ಪುತ್ರರಲ್ಲೊಬ್ಬ /ವಂಶಾಭಿವೃದ್ಧಿಗಾಗಿ ಹಿರಿಯರ ಅನುಮತಿಯಿಂದ ಪತಿಯ ಸಹೋದರರಿಂದ ಹುಟ್ಟಿದ ಮಗ
निष्पत्तिः - > जनी (प्रादुर्भावे) - "डः" (३-२-९७)
व्युत्पत्तिः - > क्षेत्रे जायते
प्रयोगाः - > "यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य च । स्वधर्मेण नियुक्तानां स पुत्रः क्षेत्रजः स्मृतः ॥"
उल्लेखाः - > मनु० ९-१६७
क्षेत्रज
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕ್ಷೆತ್ರದಲ್ಲಿ ಹುಟ್ಟಿದ /ಭೂಮಿಯಲ್ಲಿ ಹುಟ್ಟಿದ
क्षेत्रज
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಶರೀರದಲ್ಲಿ ಉತ್ಪನ್ನವಾದ
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritद्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः ॥ ५४९ ॥
कौलटेय (पुं), क्षेत्रज (पुं)
शब्दकल्पद्रुमः
Sanskritक्षेत्रजः, (क्षेत्रे स्त्रीरूपक्षेत्रे गुर्व्वाद्यनुज्ञात-देवरादिशुक्रात् जायते इति । क्षेत्र + जन् +डः ।) स्वस्त्रियामन्यद्वारा जनितः पुत्त्रः ।द्वादशविधपुत्त्रान्तर्गतपुत्त्रविशेषः । (यथाहमनुः । ९ । १६७ ।“यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा ।स्वधर्म्मेण नियुक्तायां स पुत्त्रः क्षेत्रजः स्मृतः ॥
”द्वादशविधपुत्त्रा यथा तत्रैव । ९ । १५८--१६० ।“पुत्त्रान् द्वादश यानाह नृणां स्वायम्भुवो मनुः ।तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भदस्तथा ।स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥
”)स च देवरादिना भ्रात्रादिभार्य्यायां यथोक्त-विधानोत्पन्नः । यथा, --“अपुत्त्रां गुर्व्वनुज्ञातो देवरः पुत्त्रकाम्यया ।सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥
आगव्र्भसम्भवाद्गच्छेत् पतितस्त्वन्यथा भवेत् ।अनेन विधिना जातः क्षेत्रजोऽस्य भवेत् सुतः ॥
”इति मिताक्षरायामाचाराध्यायः ॥
तत्पर्य्यायः । देवरादिजः २ । इति हेमचन्द्रः ॥
* ॥
तस्य पितृरिकथभागित्वं यथा, मनुः । ९ । १६५ ।“औरसक्षेत्रजौ पुत्त्रौ पितृरिक्थस्य भागिनौ ।दशापरे च क्रमशो गोत्ररिक्थांशभागिनः ॥
” *अनियोगोत्यन्न क्षेत्रजस्य औरसेन सह विभाग-माह मनुः । ९ । १६२ ।“यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।यद्यस्य पैत्रिकं रिक्थं स तद्गृह्णीत नेतरः ॥
”(अत्र कुल्लूकभट्टः । “यदीति । अपुत्त्रेण पर-क्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौरिक्थी पिण्डदाता च धर्म्मत इति याज्ञ-वल्क्योक्तविषये यदा क्षेत्रिकस्य पितुः क्षेत्रजा-नन्तरमौरसः पुत्त्रो भवति तदा तौ औरसक्षेत्रजौएकरिक्थिनौ एकस्य पितुर्यद्यपि रिकथार्हौभवतस्तथापि यद्यस्य जनकसम्बन्धि धनं तदेवस गृह्णीयात् न क्षेत्रजः क्षेत्रिकपितुः । यत्तुवक्ष्यति षष्ठन्तु क्षेत्रजस्यांशं प्रदद्यात् पैतृका-द्धनात् । औरसो विभजन् दायमिति तत्पुत्त्रवत्बीजिविषयम् । यत्तु याज्ञवल्क्येन उभयसम्बन्धि-रिक्थहरत्वमुक्तं तत् क्षेत्रिकपितुरौरसपत्त्रा-भावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तुऔरसमनियुक्तापुत्त्रञ्च विषयीकृत्य इमं श्लोकंव्याचक्षाते । तन्न । अनियुक्तापुत्त्रस्याक्षेत्रजत्वात्अनियुक्तासुतश्चेत्यनेन तस्य रिक्थग्रहणनिषे-धात् यद्येकरिक्थिनौ इत्यनन्वयाच्च ॥
”) एक-रिक्थिनौ एकस्यां जातौ रिक्थिनौ यस्यबीजाद्यो जातः स तस्य रिक्थं गृह्णीयात् ।इतरोऽन्यबीजजो न गृह्णीयादित्यर्थः । स्त्रीधनेयत्पितृदत्तं यद्धनं स्त्रियै तद्बीजजस्तद्धनंगृह्णीयात् नान्य इत्याह नारदः ।“द्वौ सुतौ विवदेयातां द्बाभ्यां जातौ स्त्रिया धने ।तयोर्यद्यस्य पित्र्यं स्यात् स तद्गृह्णीत नेतरः ॥
”इति दायतत्त्वम् ॥
* ॥
कलौ क्षेत्रजपुत्त्रकरणनिषेधो यथा, आदित्य-पुराणे ।“दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः ।देवरेण सुतोपत्तिर्द्दत्तकन्या प्रदीयते ॥
”इत्यादि ।“दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः ।”इत्यादि ।“एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ॥
”इत्यादि च उद्बाहतत्त्वम् ॥
* ॥
क्षेत्रजाते त्रि ॥
वाचस्पत्यम्
Sanskritक्षेत्रज क्षेत्रे जायते जन--ड ७ त० । “यस्तल्पजः प्रमीतस्यक्लीवस्य व्याधितस्य च । स्वधर्म्मेण नियुक्तायां स पुत्रःत्रेजः स्मृतः” इति मनूक्ते १ पुत्रभेदे नियोगधर्म्मश्चमनुनोक्त्वा निषिध्य च वाग्दानोत्तरमेव पतिमरणेविहितः यथा“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्ग्नियुक्तया ।प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये । विधवायांनियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्त्रं न द्वितीयं कथञ्चन । द्वितीयमेके प्रजनं मन्यन्तेस्त्रीषु तद्विदः । अनिर्व्वृत्त नियोगार्थं पश्यन्तोधर्म्मतस्तयोः । विधवायां नियोगार्थे निर्वृत्ते तु यथा-विधि । गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् । नि-युक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः । तावुभौपतितौ स्यातां स्नुषागगुरुतल्पगौ । नान्यस्मिन् विधवानारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हिनियुञ्जाना धर्म्मं हन्युः सनातनम् । नोद्वाहिकेषु म-न्त्रेषु नियोगः कीर्त्त्यते क्वचित् । न विवाहविधावृक्तंविधवावेदनं पुनः । अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मोविगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशा-सति । स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।वर्णानां सङ्करं चक्रे कामोपहतचेतनः । ततः प्रभृतियो मोहात् प्रर्मातपतिकां स्त्रियम् । नियोजयत्यपत्यार्थंतं विगर्हन्ति साधवः । यस्या म्रियेत कन्याया वाचासत्ये कृते पतिः । तामनेन विधानेन निजो विन्दतदेवरः । यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।मिथो भजेताप्रसवात् सकृत् सकृदृतावृतौ” ।वृहस्पतिना “उक्तो नियोगो मनुना निषिद्धः स्वयमेवहि” इत्यादिना तन्निषेधौक्तः । मिताक्षरायामप्ययं पक्षोद्व्यामुष्यायणप्रसङ्गे समर्थितः यथा“अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्य-सौ रिक्थी पिण्डदाता च धर्म्मतः” या० । “अपुत्रोगुर्वनुज्ञातः” इत्याद्युक्तविधिना अपुत्रेण देवरादिना पर-क्षेत्रे परभार्य्यायां गुरु नियोगेनोत्पादितःपुत्रौभयोर्वीजक्षोत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता चधर्म्मत इत्यस्यायमर्थः । यदाऽसौ नियुक्तोदेवरादिःस्वय-मप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तोयं जनयतिस द्विपितृकोद्व्यामुष्यायणोद्वयोरपि ऋक्थहारी पिण्डदा-ता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणःपुत्रार्थंयतते तदा तदुत्पन्नः क्षेत्रिणएव पुत्रोभवतिन वीजिनः-सच नियमेन वीजिनोरिक्थहारी पिण्डदोऽपीति ।यथोक्तंमनुना “क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत् प्रदी-यते । तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिकएवचेति” ।क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपि-भवत्विति संविदङ्गीकरणाद्यत् क्षेत्रं क्षेत्रस्वामिना वीजिनेवीजवपनार्थं दीयते तस्मिन् क्षेत्रौत्पन्नस्यापत्यस्य वीज-क्षेत्रिणौ भागिनौ दृष्टौ महर्षिभिः । तथा । “फलं-त्वनभिसन्धाय क्षेत्रिणां वीजिनां तथा । प्रत्यक्षंक्षेत्रिणामर्थो वीजाद्योनिर्व लीयसीति” मनुः । “फलंत्वनभिसन्धायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वि-त्येवमनभिसन्धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यंक्षेत्रिणएव । यतोवीजाद्योनिर्वलीयसी गवाश्वादिषु-तथादर्शनात् । अत्रापि नियोगोवाग्दत्ताविषयएव इ-तरस्य नियोगस्य मनुना गिषिंद्धत्वात् “देवराद्धा सपिण्डाद्धास्त्रिया सम्यग्नियुक्तया । प्रजेस्पिताधिगन्तव्या सन्तानस्यपरिक्षये । विधवायां नियुक्तस्तु घृताक्तोवाग्यतोनिशि ।एकमुत्पादयेत्पुत्रं न द्वितीय कथञ्चन” इत्येवंनियोगमुपंन्यस्यमनुः स्वयमेव निषेधति । “नान्यस्मिन् विधवा नारीनियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जानाधर्म्मंहन्युःसनातनम् । नोद्वाहिकेषु मन्त्रेषु नियोगः-कीर्त्त्यते क्वचित् । न विवाहविधावुक्तंविधवावेदनं-पुनः । एवंद्विजैर्हि विद्वद्भिःपशुधर्मोविगर्हितः ।मनुष्याणामपि प्रोक्तोवेने राज्यं प्रशासति । स मही-मखिलां भुञ्जन् राजर्षिप्रवरःपुरा । वर्णानां सङ्करञ्चक्रेकामोपहतचेतनः । ततःप्रभृति योमोहात् प्रमीतपतिकांस्त्रियम् । नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः”इति । नच विहितप्रतिषिद्भत्वाद्विकल्प इति मन्तव्यम्नियोक्तॄणां निन्दाश्रवणात् । स्त्रीधर्म्मेषु व्यभिचारस्य-बहुदोषश्रवणात् संयमस्य प्रशस्तत्वाच्च । यथाहमनुरेव “कामं तु क्षपयेद्देहं पुष्पमुलफलैःश्रुभैः । नतुनामापि गृह्णीयात्पत्यौ प्रेते परस्यत्विति” जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिध्य “आसीतामरणात् क्षान्ता नियता-व्रह्मचारिणी । योधर्म्मएकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ।अनेकानि सहस्राणि कौमारव्रह्मचारिणाम् । दिवं गता-नि विप्राणामकृत्वा कुलसन्ततिम् । मृते भर्तरि साध्वो स्त्रीब्रह्मचर्य्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा तेव्रह्मचारिणः । अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयत” इतिपुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहित-प्रतिषिद्धत्वाद्विकल्पैति न युक्तम् । एवं विवाह-संस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धर्म्मोनियोग इत्यतआह“यस्याग्नियेत कन्याया वाचा सत्ये कृते पतिः । तामनेनविधांनेन निजोविन्देत देवरः । यथाविध्यधिगम्यैनांशुक्लवस्त्रां शुचिव्रताम् । मिथोभजेताप्रसवात्सकृत्सकृट्टता-वृताविति” । यस्मै वाग्त्ता कन्या स प्रतिग्रहमन्तरेणैवतस्याः पतिरित्यस्मादेष गम्यते । तस्मिन् प्रेते देवरस्तस्य-ज्येष्ठःकनिष्ठोवा निजःसोदरोविन्देत परिणयेत् । यथा-विधि यथाशास्त्रमधिगम्य परिणीयानेन विधानेन घृता-भ्यङ्गवाङ्गियमादिना । शुक्लवस्त्रां शुचिव्रतां मनोवांक्वाय-संयमां मिथोरहस्यागर्भग्रहोणात्प्रभृत्येकैकं वारं गच्छेत् ।अयञ्च विवाहोवाचनिकोघृताभ्यङ्गादिनियमवन्नियुक्ताभिग-मनाङ्गमिति न देवरस्य भार्य्यात्वमापादयत्यतस्तदुत्पन्नम-पत्यं क्षेत्रस्वामिनएव मवति न देवरस्य संविदा तूमयोरपि”अनेन सन्दर्भेण प्रमीतपतिकायां नियोगनिषेधात्सधवायामनिषेधः तेन पाण्डुराजेन कुन्त्यां माद्र्यां चनियोगद्वारा पुत्राणामुत्पादनं न विरुद्धम् ।वस्तुतः “अनेकधा कृताः पुत्रा ऋषिभिर्यैः पुरातनैः नशक्यन्तेऽधुना कर्त्तुं शक्तिहीनैरिदन्तनैः” इति वृहस्प-तिना शक्तिहोनानामेवेदानीन्तनानां तथाचरणस्यनिषेधात् शक्तिशालिभिऋषिभिस्तस्याचरणं न निषि-द्धं तेषां तपःप्रभावात् तत्पापक्षयसम्भवात् । अतएवमृतपतिकयोरपि अम्बिकाम्बालिकयोर्विचित्रवीर्य्यभा-र्य्ययोर्नियोगात् व्यासेन धृतराष्ट्रपाण्डुरूपक्षत्रजयोरुत्-पादनं न विरुद्धम् । अतएवादित्यपुराणे कलिवर्ज्य-प्रकरणे “देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते” इत्युक्तंकालिकापुराणे च तत्प्रकरणे “दत्तौरसेतरेषां च पुत्र-त्वेन परिग्रहः” इत्युक्तम् । धृतराष्ट्रादीनां तु कलियुगोत्पन्नत्वेऽपि वासुदेवस्य भूमावस्थितिपर्य्यन्तं कलिधर्म्माणांप्रादुर्भावाभावान्न विरोधः । अतः कलौ तस्य सर्व्वथानिषेधात् तद्विषये विशेषी नाभिहिता । २ क्षेत्रजात-मात्रे ३ श्वेतकण्टकार्य्यां ४ शशाण्डुल्यां ६ गोमूत्रि-कायां ६ शिल्पिकायां ७ चविकायाञ्च स्त्री राजनि०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
