| YouTube Channel

क्षेणः (kSeNaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षिणु हिंसायाम्”@} 2 क्षेणकः-णिका, क्षेणकः-णिका, 3 चिक्षेणिषकः-चिक्षिणिषकः-षिका, चेक्षिणकः-णिका
क्षेणिता-त्री, क्षेणयिता-त्री, चिक्षेणिषिता-चिक्षिणिषिता-त्री, चेक्षिणिता-त्री
4 क्षेण्वन्-ती, क्षेणयन्-न्ती, चिक्षेणिषन्-चिक्षिणिषन्-न्ती
-- क्षेणिष्यन्-न्ती-ती, क्षेणयिष्यन्-न्ती-ती, चिक्षेणिषिष्यन्-चिक्षिणिषिष्यन्-न्ती-ती
क्षेण्वानः, क्षेणयमानः, चिक्षेणिषमाणः-चिक्षिणिषमाणः, चेक्षिण्यमानः
क्षेणिष्यमाणः, क्षेणयिष्यमाणः, चिक्षेणिषिष्यमाणः-चिक्षिणिषिष्यमाणः, चेक्षिणिष्यमाणः
5 प्रक्षीण्-प्रक्षीणौ-प्रक्षीणः
-- -- -- 6 7 क्षितम्-तः, क्षेणितः, चिक्षेणिषितः-चिक्षिणिषितः, चेक्षिणितः-तवान्
8 क्षिणः, क्षेणः, चिक्षेणिषुः-चिक्षिणिषुः, चेक्षिणः
क्षेणितव्यम्, क्षेणयितव्यम्, चिक्षेणिषितव्यम्-चिक्षिणिषितव्यम्, चेक्षिणितव्यम्
क्षेणनीयम्, 9 क्षेणनीयम्, चिक्षेणिषणीयम्-चिक्षिणिषणीम्, चेक्षिणनीयम्
क्षेण्यम्, क्षेण्यम्, चिक्षेणिष्यम्-चिक्षिणिष्यम्, चेक्षिण्यम्
ईषत्क्षेणः-दुःक्षेणः-सुक्षेणः
-- -- क्षिण्यमानः, क्षेण्यमानः, चिक्षेणिष्यमाणः-चिक्षिणिष्यमाणः, चेक्षिण्यमानः
क्षेणः, क्षेणः, चिक्षेणिषः-चिक्षिणिषः, चेक्षिणः
क्षेणितुम्, क्षेणयितुम्, चिक्षेणिषितुम्-चिक्षिणिषितुम्, चेक्षिणितुम्
10 क्षितिः 11, क्षेणना, चिक्षेणिषा-चिक्षिणिषा, चेक्षिणा
क्षेणनम्, क्षेणनम्, चिक्षेणिषणम्-चिक्षिणिषणम्, चेक्षिणनम्
12 क्षेणित्वा-क्षिणित्वा-क्षित्वा, क्षेणयित्वा, चिक्षेणिषित्वा-चिक्षिणिषित्वा, चेक्षिणित्वा
13 प्रक्षित्य, प्रक्षेण्य, प्रचिक्षेणिष्य-प्रचिक्षिणिष्य, प्रचेक्षिण्य
क्षेणम् २, क्षेणित्वा २, क्षिणित्वा २, क्षित्वा २, क्षेणम् २, क्षेणयित्वा २, चिक्षेणिषम् -चिक्षिणिषम् २, चिक्षेणिषित्वा -चिक्षिणिषित्वा २, चेक्षिणम्
चेक्षिणित्वा २। 14
प्रासङ्गिक्यः
01
=>
(३०५)
02
=>
(८-तनादिः-१४६६। सक। सेट्। उभ।)
03
=>
[[४। ‘रलो व्युपधाद्धलादेस्संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पात् पाक्षिको गुणः।]]
04
=>
[[५। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इति विकरणप्रत्यय उकारः। गुणः। केचित्तु ‘संज्ञापूर्वको विधिरनित्यः’ (परिभाषा-९५) इत्याश्रित्य गुणरहितं ‘क्षिण्वन्’ इति रूपमाहुः।]]
05
=>
[[६। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति उपधायाः दीर्घः।]]
06
=>
[पृष्ठम्०३२०+ २१]
07
=>
[[१। ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इति अनुनासिकलोपः। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायाः इण्ण।]]
08
=>
[[२। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
09
=>
[[३। ‘णेरनिटि’ (६-४-५१) इति ण्यन्तादनीयरि णेर्लोपः।]]
10
=>
[[४। ‘तितुत्र--’ (७-२-९) इत्यादिना इण्णिषेधः। ‘अनुदात्तोप--’ (६-४-३७) इति णकारस्य लोपः।]]
11
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसः तृणीकृतरिपुः घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
12
=>
[[५। ‘उदितो वा’ (७-३-५६) इति क्त्वायामिड्विकल्पः। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। इडभावपक्षे अनुनासिकलोपः। तेन रूपत्रयम्।]]
13
=>
[[६। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् तनोत्यादीनां ल्यपि नित्यमनुनासिकलोपः। तुक् भवति।]]
14
=>
[पृष्ठम्०३२१+ ३०]