| YouTube Channel

क्षुल्लकः (kSullakaH)

 
Wordnet
Sanskrit
Synonyms:
क्षुल्लकः , क्षुलिकः
noun
एकः राजपुत्रः
"क्षुल्लकस्य वर्णनं विष्णुपुराणे वर्तते"
Synonyms:
क्षुल्लकः, क्षुलिकः
noun
एकः राजपुत्रः
"क्षुल्लकस्य वर्णनं विष्णुपुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
क्षुल्लकः, त्रि, (क्षुल्ल + स्वार्थे कन् ।) क्षुद्रः इत्य-मरः १०
स्वल्पः नीचकः कनिष्ठः ।दरिद्रः इति भरतः
पामरः दुःखितः ।(यथा, भागवते ३० २९ ।“येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।अन्तर्हितोऽस्तर्हृदये कस्मान्नो वेद नाशिषः”
)खलः इति हेमचन्द्रः
शब्दरत्नावल्यां खुल्लकइति पाठः
क्षुल्लकः,
पुं,
(क्षुल्ल + संज्ञायां स्वल्पार्थे वा कन् ।) क्षुद्र-शङ्खः इति हेमचन्द्रः राजनिर्घण्टश्च
(शोधना-दिप्रकरणेऽस्य विषयो यथा, --“कङ्कुष्ठं गैरिकं शङ्खं कासीसं टङ्कणन्तथा ।नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः
जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणाशुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये”
इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)