| YouTube Channel

क्षुरकर्म्म (kSurakarmma)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुरकर्म्म, [न्]
क्ली,
(क्षुरेणोचितं क्षुरसाध्यं वाकर्म्म ।) क्षौरम् क्षुरद्वारा केशादिकर्त्तनम्
यथा, --“यो जन्ममासे क्षुरकर्म्म यात्रांकर्णस्य वेधं कुरुते मोहात् ।नूनं रोगं धनपुत्त्रनाशंप्राप्नोति मूढो वधबन्धनानि
जातं दिनं दूषयते वशिष्ठ-श्चाष्टौ गर्गो यवनो दशाहम् ।जन्माख्यमासं किल भागुरिश्चचूडे विवाहे क्षुरकर्णवेधे
देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये ।क्षुरिकर्म्म कुर्व्वीत जन्ममासेऽथ जन्मभे”
इति तिथ्यादितत्त्वम्
क्षौरानन्तरं स्नानं कर्त्त-व्यम् यथा, --“दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्म्मणि ।चिति पूयश्मशानास्थ्नां स्पर्शने स्नानमाचरेत्”
इति मिताक्षरायां प्रायश्चित्ताध्याये पराशर-वचनम्
अन्यत् क्षौरशब्दे द्रष्टव्यम्