क्षुभ (kSubha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishApte
Englishक्षुभ [kṣubha], [क्षुभ्-क] Exciting, agitating
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaक्षुभ - सञ्चलने (भ्वा० आत्म० अक० से०) क्षोभते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಚಲಿಸು /ಅಲುಗಾಡು
क्षुभ - सञ्चलने (दिवा० पर० अक० से०) क्षुभ्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಚಲಿಸು /ಅಲುಗಾಡು
क्षुभ - सञ्चलने (क्र्या० पर० अक० से०) क्षुभ्नाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಚಲಿಸು /ಅಲುಗಾಡು
धातुपाठः (Krishnacharya)
Sanskrit क्षुभ्
क्षुभ
सञ्चलने
भ्वादिः
अकर्मकः
सेट्
आत्मनेपदी
क्षोभते
क्षुभ्
क्षुभ
सञ्चलने
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
क्षुभ्यति
पुषादिः
क्षुभ्
क्षुभ
सञ्चलने
क्र्यादिः
अकर्मकः
सेट्
परस्मैपदी
क्षुभ्नाति
क्षुभ्नादिः
धातुप्रदीपः
Sanskritक्षुभँ क्षुभ सञ्चलने
- क्षोभते । चुक्षुभे । क्षुब्धः । क्षुभितः । क्षुभ्नाति । क्षुभ्यतीति । गणान्तरपाठात् ।। 754 ।।
क्षुभँ क्षुभ सञ्चलने
- क्षुभ्यति अक्षुभत् क्षोभः क्षोभते क्षुभ्नातीति तु गणान्तरपाठात् पुषादेः पूर्वमस्य पाठेऽपि न दोषः अक्षुभदिति द्युतादिपाठेनैव सिद्धेः न चाक्षोभीदिति सिज्निवृत्त्यर्थम् क्षुभ्नातेः सिचोऽवश्यम्भावात् भकारान्तप्रकरणानुरोधेन चेहोपदिश्यते 132
क्षुभँ क्षुभ सञ्चलने
- क्षुभ्नाति क्षुभ्नीतः क्षुभ्नातु क्षुभाण अक्षोभीत् क्षोभते क्षुभ्यतीति गणान्तरपाठात् 50
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षुभ सङ्कोचने आत्म० हेट् ऌदित् । क्षोभते अक्षुभत्चुक्षुभेक्षोभ्यम् । क्षोभः क्षोभणम् क्षोभी “तानसौ नापि-चाक्षुभत्” नाक्षुभद्राक्षसोभ्रातुः” भट्टिः क्षुब्धः क्षुभितः ।“क्षुब्धतोया महावेगाः श्वममानाइवाशुगाः” भा० व०८ अ० । “क्षुभिताः सागराः सर्व्वे” रामा० बा० ६५ स० ।“चुक्षुभे द्विषतां मनः” रघुः “यदेतदादित्यस्य मध्येक्षोभत इव” छा० उ० । क्षोभमाणः ।
क्षीरतरङ्गिणी
Sanskritक्षुभँ क्षुभ संञ्चलने
- (अर्थविवरणम्) सञ्चलनं रूपान्यथात्वम्
क्षोभते अक्षुभत्, अक्षोभिष्ट क्षुब्धस्वान्त (7218) इति क्षुब्धो मन्थे साधुः क्षुभितोऽन्यः दिवादौ (4130) क्षुभ्यति क्र्य्यादौ (9 52) क्षुभ्नाति 730
क्षुभँ क्षुभ संचलने
- (अर्थविवरणम्) संचलनं रूपान्यथात्वम्
क्षुभ्यति अक्षुभत् क्षोभितः क्षुब्धस्वान्त (7218) इति क्षुब्धो मन्थश्चेत्, क्षुभितोऽन्यः क्षुभिताम्भोधिवर्णना क्र्य्यादौ (952) क्षुभ्नाति भ्वादौ (1499) क्षोभते 127
क्षुभँ क्षुभ संचलने
- क्षुभ्नाति, क्षुभ्नादित्वात् (द्र0 8439) णत्वाभावः क्षुब्धस्वान्त (7218) इति क्षुब्धो मन्थश्चेत्, क्षुभितोऽन्यः अक्षोभीत् दिवादौ (4130) क्षुभ्यति, अक्षुभत् भ्वादौ (1499) क्षोभते 46
धातुवृत्तिः
Sanskritक्षुभँ क्षुभ (अर्थः) सञ्चलने
(अर्थविवरणम्) संचलनं प्रकृतिविपर्यासो गमनं च
( क्षोभते अक्षुभत् अक्षोभिष्टेत्यादि ) पूर्ववत् (क्षुब्धो मन्धः) "क्षुब्धस्वान्त'' इति मन्थे निष्ठायामनिट्त्वं निपात्यते अन्यत्र (क्षुभितः) अयं दिवादिः क्त्यादिश्च 738
क्षुभँ क्षुभ (अर्थः) सञ्चलने
( क्षुभ्यति चुक्षोभ क्षोभिता ) इत्यादि श्यन्भाविभकारान्तानुरोधादस्येह पाठः अङ् द्युतादित्वादपि सिद्धः न चाक्षोभीदिति सिज्निवृत्यर्थ उपपद्यतेक्रैयादिकेनावश्यं तस्य रूपस्य भावित्वात् 130
क्षुभँ क्षुभ (अर्थः) सञ्चलने
( क्षुभ्नाति क्षुभ्नीतः चुक्षोभ चक्षुभतुः चुक्षोभिथ चुक्षुभिव क्षोभिता क्षोभिष्यति क्षुभ्नातु क्षुभाण क्षुभ्नानि अक्षुभ्नात् क्षुभ्नीयात् ) आशिषि ( क्षुभ्यात् अक्षोभीत् अक्षोभिष्टाम् चुक्षुभिषति ) इत्यादि क्षुभ्यतिवत् क्षोभतइति भूवादौ अक्षुभदिति क्षुभ्यतेः पुषादिपाठात् "क्षुभ्नादिषु च'' इति णत्वनिषेधो यत्रैतद्रूयं तत्रैवेति क्षोभ्णमित्यत्र रूपान्तरे न भवति क्षुभ्नीतः, क्षुभ्नन्तीत्यादौ त्वेकदेशविकृतस्यानन्यत्वात्स्थानिवद्भावाद्भवत्येव 47
कृदन्तरूपमाला
Sanskrit1 {@“क्षुभ सञ्चलने”@} 2 सञ्चलनम् = प्रकृतिविपर्यासः, गमनं च।
इति मा-धातुबृत्तौ।
‘क्षुभ्नाति क्षोभते क्षुभ्येत्, इति संचलने क्षुभेः।।’ 3 इति देवः।
क्षोभकः-भिका, क्षोभकः-भिका, 4 चुक्षुभिषकः-चुक्षोभिषकः-षिका, चोक्षुभकः-भिका
क्षोभिता-त्री, क्षोभयिता-त्री, चुक्षुभिषिता-चुक्षोभिषिता-त्री, चोक्षुभिता-त्री
-- क्षोभयन्-न्ती
क्षोभयिष्यन्-न्ती-ती
-- क्षोभमाणः, क्षोभयमाणः, चुक्षुभिषमाणः-चुक्षोभिषमाणः, चोक्षुभ्यमाणः
क्षोभिष्यमाणः, क्षोभयिष्यमाणः, चुक्षुभिषिष्यमाणः-चुक्षोभिषिष्यमाणः, चोक्षुभिष्यमाणः
प्रक्षुप्-प्रक्षुब्-प्रक्षुभौ-प्रक्षुभः
-- -- 5 6 क्षुभितम्- 7 क्षोभितम्, 8 क्षुब्धः, क्षोभितः, चुक्षुभिषितः-चुक्षोभिषितः, चोक्षु-भितः-तवान्
क्षुभः, 9 क्षोभणः, 10 प्रक्षोभी, क्षोभः, चुक्षुभिषुः-चुक्षोभिषुः, चोक्षुभः
क्षोभितव्यम्, क्षोभयितव्यम्, चुक्षुभिषितव्यम्-चुक्षोभिषितव्यम्, चोक्षुभितव्यम्
क्षोभणीयम्, क्षोभणीयम्, चुक्षुभिषणीयम्-चुक्षोभिषणीयम्, चोक्षुभणीयम्
क्षोभ्यम्, क्षोभ्यम्, चुक्षुभिष्यम्-चुक्षोभिष्यम्, चोक्षुभ्यम्
ईषत्क्षोभः-दुःक्षोभः-सुक्षोभः
-- -- क्षुभ्यमाणः, क्षोभ्यमाणः, चुक्षुभिष्यमाणः-चुक्षोभिष्यमाणः, चोक्षुभ्यमाणः
11 क्षोभः, क्षोभः, चुक्षुभिषः-चुक्षोभिषः, चोक्षुभः
क्षोभितुम्, क्षोभयितुम्, चुक्षुभिषितुम्-चुक्षोभिषितुम्, चोक्षुभितुम्
12 क्षुब्धिः, क्षोभणा, चुक्षुभिषा-चुक्षोभिषा, चोक्षुभा
क्षोभणम्, क्षोभणम्, चुक्षुभिषणम्-चुक्षोभिषणम्, चोक्षुभणम्
13 क्षुभित्वा-क्षोभित्वा, क्षोभयित्वा, चुक्षुभिषित्वा-चुक्षोभिषित्वा, चोक्षुभित्वा
14 प्रक्षुभ्य, प्रक्षोभ्य, प्रचुक्षुभिष्य-प्रचुक्षोभिष्य, प्रचोक्षुभ्य
क्षोभम् २, क्षुभित्वा २ -क्षोभित्वा २, क्षोभम् २, क्षोभयित्वा २, चुक्षुभिषम् २ -चुक्षोभिषम् २, चुक्षुभिषित्वा २ -चुक्षोभिषित्वा २, चोक्षुभम् २
चोक्षुभित्वा २।
01 (३१६)
02 (१-भ्वादिः-७५१। सक। सेट्। आत्म।)
03 (श्लो-१४४)
04 [[३। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः।]]
05 [पृष्ठम्०३३१+ २५]
06 [[१। ‘उदुपधात् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति वा कित्त्वम्।]]
07 [[आ। ‘कृष्णोऽपि तापोल्लुठिताङ्गशोभा आश्वास्य मारक्षुभिता महेलाः। अनभ्यसन्तोभककंसजीवस्रंसाय पापध्वदयं प्रतस्थे।।’ धा। का। २-२। ‘क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम। प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम्।।’ शिशुपालवधे--१६-५१।]]
08 [[२। ‘क्षुब्धस्वान्त--’ (७-२-१८) इत्यादिना मन्थे विवक्षिते सति निष्ठायाः इडभावो निपातितः। ‘क्षुब्धादयोऽनिटः क्तान्ता मन्थाद्यर्थे निपातिताः। मन्थो मथनदण्डः स्यात्, सक्तवो वा द्रवीकृताः।। तद्वाची क्षुब्धशब्दोऽयं तयोश्च चलितत्वतः। चलितेष्वपि सर्वेषु प्रयोगोऽस्योपचारतः।।’ इति प्रक्रियासर्वस्वे।]]
09 [[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४८) इति ताच्छीलिको युच्।]]
10 [[४। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः ताच्छील्ये।]]
11 [[B। ‘इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात्। क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः।।’ शिशुपालवधे--१५-४७।]]
12 [[५। ‘तितुत्र--’ (७-२-९) इत्यादिना क्तिनि इण्णिषेधः।]]
13 [[६। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वायां कित्त्वविकल्पः। तेन रूपद्वयम्।]]
14 [पृष्ठम्०३३२+ २५]
1 {@“क्षुभ सञ्चलने”@} 2 ‘क्षुभ्नाति क्षोभते क्षुभ्येत्, इति संचलने क्षुभेः।।’ 3 इति देवः।
अस्य धातोर्दिवादित्वात् शतरि 4 क्षुभ्यन्-न्ती, क्षोभिष्यन्-न्ती-ती
इत्यादीनि रूपाणि।
अन्यानि सर्वाणि रूपाणि भौवादिकक्षोभतिवत् 5, ज्ञेयानि।
‘उदुपधात्--’ 6 इति वैकल्पिककित्त्वं तु नात्र प्रवर्तते।
‘शब्विकरणेभ्य एवेष्यते’ 7 इत्युक्तत्वात्।
01 (३१७)
02 (४-दिवादिः-१२३९। सक। सेट्। पर।)
03 (श्लो। १४४)
04 [[आ। ‘ततः क्रोधानिलापातकम्प्रास्याम्भोजसंहतिः। महाह्रद इव क्षूभ्यन् कपिमाह स्म रावणः।।’ भ। का। ९-११८।]]
05 (३१६)
06 (१-२-२१)
07 (भाष्येष्टिः १-२-२१)
1 {@“क्षुभ सञ्चलने”@} 2 ‘क्षुभ्नाति क्षोभते क्षुभ्येदिति संचलने क्षुभेः।।’ 3 अस्य धातोः क्र्यादित्वात् 4 क्षुभ्नन् 5 -ती, इति रूपमिति विशेषः।
अन्यानि रूपाणि भौवादिकक्षुभधातुवत् 6 बोध्यानि।
‘उदुपधात्--’ 7 इति अत्रापि न प्रवर्तते, क्रैयादिकत्वात्।
01 (३१८)
02 (९-क्र्यादिः-१५१९। सक। सेट्। पर।)
03 (श्लो। १४४ इति देवः)
04 [[१। ‘क्र्यादिभ्यः श्ना’-- (३-१-८१) इति श्ना। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘क्षुभ्नादिषु च’ (८-४-३९) इति णत्वनिषेधः।]]
05 [[B। ‘रोषभीममुखेनैवं क्षुभ्नतोक्ते प्लवङ्गमः। प्रोचे सानुनयं वाक्यं रावणं स्वार्थसिद्धये।।’ भ। का। ९-१०९।]]
06 (३१६)
07 (१-२-२१)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
