| YouTube Channel

क्षुधासागररस (kSudhAsAgararasa)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुधासागररसः,
पुं,
(क्षुधायां क्षुधाया वा सागररसइव क्षुधोद्रेकात् तथात्वम् ।) औषधविशेषः ।यथा, --“त्रिकटु त्रिफला चैव तथा लवणपञ्चकम् ।क्षारत्रयं रसं गन्धं भागैकं पूर्व्ववद्विषम्
गुञ्जामात्रां वटीं कुर्य्याल्लवङ्गैः पञ्चभिः सह ।क्षुधासागरनाभायं रसः सूर्य्येण निर्म्मितः”
पूर्व्ववद्विषमित्यमृतवट्युक्तभागवत् तेनात्र विषस्यभागद्वयम् इति भैषज्यरत्नावली
वाचस्पत्यम्
Sanskrit
क्षुधासागररस
पु०
भेषज्यरत्नावल्यक्ते औषधभेदे“त्रिकटु त्रिफला चैव तथा लवणपञ्चकम् क्षारत्रयंरसं गन्धं भागैकं पूर्व्ववद्भिषक् गुञ्जामात्रां वटीं कुर्य्या-ल्लवङ्गैः पञ्चभिः सह क्षुधासागरनामायं रसः सूर्य्येणनिर्म्मितः”