| YouTube Channel

क्षुधावती (kSudhAvatI)

 
Shabdartha Kaustubha
Kannada
क्षुधावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹಸಿವಿನಿಂದ ಕೂಡಿದ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-६)
शब्दकल्पद्रुमः
Sanskrit
क्षुधावती,
स्त्री,
(क्षुधाऽस्यामस्तीति मतुप् मस्यवत्वम् ।) क्षुधाजनकौषधवटी अजीर्णादि-रोगनाशकगुडिका यथा, --“रसायो गन्धकाभ्राणि त्र्युषणं त्रिफला वचा ।यमानी शतपुष्पा चविका जीरकद्वयम्
प्रत्येकं पलमेषान्तु घण्टकणपुनर्नवा ।माणकं ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः
दण्डोत्पला त्रिवृद्दन्ती जामातृरक्तचन्दनम् ।भृङ्गापामार्गकुलका मण्डूकञ्च पलार्द्धकम्
आर्द्रकस्वरसेनाथ गुडिकां संप्रकल्पयेत् ।वदरास्थिसमाञ्चैषां भक्षयित्वा पिबेदनु
वारिभक्तं जलञ्चैव प्रातरुत्थाय मानवः ।वटी क्षुधावती नाम सर्व्वाजीर्णविनाशिनी
अग्निञ्च कुरुते दीप्तं भस्मकञ्च नियच्छति ।अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत्
तत्सर्व्वं शमयत्याशु भास्करस्तिमिरं यथा ।मधुरं वर्ज्जयेदत्र विशेषात् क्षीरशर्करे”
इति भैषज्यरत्नावल्यामम्लपितचिकित्सा
तस्याःस्वल्पनृहद्भेदौ तत्रैव द्रष्टव्यौ
*
क्षुधायुक्ते त्रि
(क्षुधाजनकापरौषधम् यथा, --“सप्त पञ्चचतुर्भागाष्टङ्गणक्षारकद्वये ।त्रयस्त्रयः पदूनाञ्च द्वौ द्वौ मरिचचित्रयोः
शुण्ठीलवङ्गयोर्द्वौद्वावस्नयोगेन भावयेत् ।वटीङ्कोलप्रमाणेन कारयेद्भिषजां वरः
आमशूलमम्लपित्तं पित्तशूलं विशेषतः ।दुर्नामग्रहणीमुग्रा मजीर्णानि विनाशयेत्
नाम्न क्षुधावती ह्येषा वह्निदेवेन निर्म्मिता ।अस्याः प्रसादान्मन्दाग्निर्भवेद्दावानलो नरः”
इति चिकित्सारत्ननिधौ मन्दाग्न्यधिकारे
)