| YouTube Channel

क्षुधार्त्तः (kSudhArttaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुधार्त्तः, त्रि, (क्षुधया आर्त्तः ऋतो वा तृतीयातत्पु-रुषे ऋतस्य वृद्धिः ।) क्षुत्पीडितः यथा, --“शीतार्त्तश्च क्षुधार्त्तश्च कम्पान्वितकलेवरः ।जजागार तदा रात्रौ प्लुतो नीहारवारिणा”
इति शिवरहस्ये शिवरात्रिव्रतकथा
(यथा, चमनुः १० १०७ ।“भरद्वाजः क्षुधार्त्तस्तु सपुत्त्रो विजने वने ।बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः”
)