| YouTube Channel

क्षुध (kSudha)

 
शब्दसागरः
English
क्षुध (ऌ औ) औक्षधॢ r. 4th cl. (क्षुध्यति) To be hungry, to hunger.
Yates
English
क्षुध (य, ऌ, औ) क्षुध्यति 4.
a. To be
hungry, to suffer hunger.
Wilson
English
क्षुध (ऋ औ) औक्षुधृ r. 4th cl. (क्षुध्यति) To be hungry, to
hunger.
Shabdartha Kaustubha
Kannada
क्षुध - बुभुक्षायाम् (दिवा० पर० अक० अनि०) क्षुध्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಊಟವನ್ನು ಅಪೇಕ್ಷಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षुध्
मूलधातुः:
क्षुध
धात्वर्थः:
बुभुक्षायाम्
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्षुध्यति
धातुप्रदीपः
Sanskrit
क्षुधँ क्षुध बुभुक्षायाम्
- क्षुध्यति चुक्षोध क्षोत्ता क्षोत्स्यति अक्षुधत् क्षुत् क्षुधा क्षुधितः 84
शब्दकल्पद्रुमः
Sanskrit
क्षुध, क्षुदि इति कविकल्पद्रुमः
(दिवां--परं-सकं-अनिट् ।) क्षुद्भक्षणेच्छा ऌ, अक्षु-धत् य, क्षुध्यत्यन्नं बुभुक्षितः औ, क्षोद्धा ।इति दुर्गादासः
क्षीरतरङ्गिणी
Sanskrit
क्षुधँ क्षुध बुभुक्षायाम्
- क्षुध्यति, अक्षुधत्, क्षोद्धा उकञ् (द्र0 32154) इष्यते-क्षोधुकः वसतिक्षुधोरिट् (7252) क्त्वानिष्ठयोः-क्षुधितः, क्षुधित्वा क्षोधित्वा, रलो व्युपधाद् (1226) इति वा कित्त्वम् 78
धातुवृत्तिः
Sanskrit
क्षुधँ क्षुध (अर्थः) बुभुक्षायाम्
( क्षुध्यति चुक्षोघ क्षोद्धा ) इत्यादि (क्षुत्) सम्पदादित्वांत्क्विप् ( क्षुधितः ) इति "तदस्य सञ्जातम्'' इतीतचि 82
कृदन्तरूपमाला
Sanskrit
1 {@“क्षुध बुभुक्षायाम्”@} 2 क्षोधकः-धिका, क्षोधकः-धिका, 3 चुक्षुत्सकः-त्सिका, चोक्षुधकः-धिका
क्षोद्धा-द्ध्री, क्षोधयिता-त्री, चुक्षुत्सिता-त्री, चोक्षुधिता-त्री
4 क्षुध्यन् 5 -न्ती, क्षोधयन्-न्ती, चुक्षुत्सन्-न्ती
-- क्षोत्स्यन्-न्ती-ती, क्षोधयिष्यन्-न्ती-ती, चुक्षुत्सिष्यन्-न्ती-ती
-- -- क्षोधयमानः, -- चोक्षुध्यमानः
-- क्षोधयिष्यमाणः, -- चोक्षुधिष्यमाणः
क्षुत्-क्षुध्-क्षुधौ-क्षुधः
-- -- 6 क्षुधितम्-तः, क्षोधितः, चुक्षुत्सितः, चोक्षुधितः-तवान्
7 क्षुधः, 8 क्षोधुकः, क्षोधः, चुक्षुत्सुः, चोक्षुधः
क्षोद्धव्यम्, क्षोधयितव्यम्, चुक्षुत्सितव्यम्, चोक्षुधितव्यम्
क्षोधनीयम्, क्षोधनीयम्, चुक्षुत्सनीयम्, चोक्षुधनीयम्
क्षोध्यम्, क्षोध्यम्, चुक्षुत्स्यम्, चोक्षुध्यम्
ईषत्क्षोधः-दुःक्षोधः-सुक्षोधः
-- -- क्षुध्यमानः, क्षोध्यमानः, चुक्षुत्स्यमानः, चोक्षुध्यमानः
9 क्षोधः, क्षोधः, चुक्षुत्सः, चोक्षुधः
क्षोद्धुम्, क्षोधयितुम्, चुक्षुत्सितुम्, चोक्षुधितुम्
10 क्षुत्-क्षुधा, क्षोधना, चुक्षुत्सा, चोक्षुधा
क्षोधनम्, क्षोधनम्, चुक्षुत्सनम्, चोक्षुधनम्
11 क्षुधित्वा 12 क्षोधित्वा क्षोधयित्वा, चुक्षुत्सित्वा, चोक्षुधित्वा
सङ्क्षुध्य, प्रक्षोद्ध्य, प्रचुक्षुत्स्य, प्रचोक्षुध्य
क्षोधम् २, क्षुधित्वा २-क्षोधित्वा २, क्षोधम् २, क्षोधयित्वा, चुक्षुत्सम् २, चुक्षुत्सित्वा २, चोक्षुधम्
चोक्षुधित्वा २।
प्रासङ्गिक्यः
01
=>
(३१५)
02
=>
(४-दिवादिः-११९०। अक। अनि। पर।)
03
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। तेनाङ्गस्य गुणो न। चर्त्वम्। एवमेव सर्वत्र सन्नन्ते प्रक्रिया बोध्या।]]
04
=>
[[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः ङिद्वद्भावात् अङ्गस्य गुणो न। ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
05
=>
[[आ। ‘शक्यन् गर्वमशक्यमानमनसाम् आस्विद्यदास्योऽक्रुधं क्षुध्यद्भक्तदमाप मालिकवरं शुद्धं सिद्धेप्सितम्।।’ धा। का। २-६३। ‘का त्वमेकाकिनी भीरु निरन्वयजने वने। क्षुध्यन्तोऽप्यघसन् व्यालास्त्वामपालां कथं वा।।’ भ। का। ५-६६।]]
06
=>
[[३। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वानिष्ठयोः नित्यम् इट्।]]
07
=>
[[४। ‘इगुपध--’ (३-१-१३५) लक्षणः कप्रत्ययः कर्तरि।]]
08
=>
[[५। ‘लषपत--’ (३-२-१५४) इत्यादिना विहितः उकञ् अस्यापीष्यते--इति क्षीरस्वामी।]]
09
=>
[पृष्ठम्०३३०+ २२]
10
=>
[[१। ‘स्त्रियां क्तिन्’ (३-३-९४) इत्यधिकारे ‘सम्पदादिभ्यः क्विप्’ (वा। ३-३-९४) इति क्विप्, क्तिनोऽपवादः। ‘आपं चैव हलन्तानाम्’ इत्यनेन टाप्। ‘या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।’ इति देवीमाहात्म्यम्।]]
11
=>
[[२। ‘वसतिक्षुधोरिट्’ (७-२-५२) इतीट् क्त्वायाम्। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपद्वयम्।]]
12
=>
[[आ। ‘पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयोनिधौ। बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९-३९।]]