| YouTube Channel

क्षुद्रान्त्रं (kSudrAntraM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुद्रान्त्रं,
क्ली,
(क्षुद्रं अन्त्रं उदरस्थनाडीभेदः ।)हृदयस्थितसूक्ष्मान्त्रम् यथा, -- समाननाम्नः पव-नस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषावाचो युक्तिप्राचुर्य्याभिप्रायेण प्राणायतनानि प्रप-ञ्चयितुमाह ।“वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा ।क्षुद्रान्त्रं वृक्ककौ वस्तिः पुरीषाधानमेव
प्राणाशयोऽथ हृदयं स्थूलान्त्रं गुद एव ।उदरञ्च गुदौ कौद्व्यौ विस्तारोऽयमुदाहृतः”
वपा प्रसिद्धा वसा मांसस्नेहः नाभिः प्रसिद्धा ।अवहननं पुष्फुसः प्लीहा आयुर्व्वेदप्रसिद्धः ।ते मांसपिण्डाकारे सव्यकुक्षिगते यकृत्कालिका क्लोम मांसपिण्डः ते दक्षिण-कुक्षिगते क्षुद्रान्त्रं हृत्स्थान्त्रम् वृक्ककौहृदयसमीपस्थौ मांसपिण्डौ वस्तिर्मूत्राशयः ।पुरीषाधानं पुरीषाशयः आमाशयोऽपक्वान्न-स्थानम् हृदयं हृत्पुण्डरीकम् स्थूलान्त्रगुदो-दराणि प्रसिद्धानि वाह्याद्गुदवलयादन्तर्गुद-वलये द्वे तौ गुदौ कौष्ठ्यौ कोष्ठे नाभेरधःप्रदेशे भवौ अयञ्च प्राणायतनस्य विस्तार-उक्तः पूर्व्वश्लोके तु सङ्क्षेपः अतएव पूर्व्वश्लोको-क्तानां केषाञ्चिदिह पाठः इति मिताक्षरायांप्रायश्चित्ताध्यायः
(“पञ्चदशकोष्ठाङ्गानि तद्यथा, --“नाभिश्च हृदयञ्च क्लोम यकृच्च प्लीहा वुक्कौच वस्तिश्च पुरीषाधाराश्चामाशयश्चेति पक्वा-शयश्चोत्तरगुदञ्चाधरगुदञ्च क्षुद्रान्त्रञ्च स्थूलान्त्रञ्चवपावहञ्चेति” इति चरके शारीरस्थाने ७अध्याये
)