| YouTube Channel

क्षुद्रश्वासः (kSudrazvAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुद्रश्वासः,
पुं,
(क्षुद्रः अल्पः श्वासः ।) अल्पश्वास-रोगः यथा, --“रसनिमित्तमेव स्थौल्यं कार्श्यञ्च तत्र श्लेष्मलाहार-सेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्न-रतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनु-क्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापा-दयति तं अतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्न-स्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्र-मेवाविशन्ति” इत्यादि सुश्रुते १६ अध्यायः
तस्य निदानादि यथा, --“यैरेव कारणैर्हिक्का बहुभिः संप्रवर्त्तते ।तैरेव कारणैः श्वासो घोरो भवति देहिनाम्
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः ।श्वासयत्यूर्द्ध्वगो भूत्वा तं श्वासं परिचक्षते
क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वश्च पञ्चधा ।भिद्यते महाव्याधिः श्वास एको विशेषतः
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा ।आनाहः पार्श्वयोः स्थूलं वैरस्यं वदनस्य
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्त्तते ।निषण्णस्यैति शान्तिञ्च क्षुद्र इति संज्ञितः”
इति सुश्रुते उत्तरतन्त्रे ५१ अध्यायः
(“रूक्षायाः सोद्भवः कोष्ठे क्षुद्रवात् उदीरयन् ।क्षुद्रश्वासो सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः
हिनस्ति गात्राणि दुःखा यथेतरे ।न भोजनपानानां निरुणद्ध्युचितां गतिम्
नेन्द्रियाणां व्यथां नापि काञ्चिदुत्पादयेद्रुजम् ।स साध्य उक्तो बलिनः सर्व्वे चाव्यक्तलक्षणाः”
इति चरके चिकित्सास्थाने २१ अध्याये
)