क्षुद्ररोगः (kSudrarogaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiक्षुद्ररोगः
क्षुद्र-रोगः -
मामूली बीमारी
शब्दकल्पद्रुमः
Sanskritक्षुद्ररोगः, (क्षुद्रः रोगः ।) स्वल्पव्याधिः । तस्यगणना यथा । पलितः १ इन्द्रलुप्तः २ दारुणकः३ अरुषिका ४ इरिवेल्लिका ५ पनसिका ६ पा-षाणगर्द्दभः ७ मुखदूषिका ८ व्यङ्गः ९ नीलिका१० वल्मीकः ११ कक्षा १२ गन्धिनाम १३अग्निरोहिणी १४ विदारिका १५ चिप्पः १६परिवर्त्तिका १७ अवपाटिका १८ निरुद्ध-प्रकाशः १९ सन्निरुद्धगुदः २० वृषणकच्छः २१अहिपूतनः २२ गुदभ्रंशः २३ शूकरदंष्ट्रः २४अनुशयी २५ अलसः २६ दारी २७ कदरः २८तिलकालकः २९ मसकः ३० जतुमणिः ३१ न्यच्छः३२ पद्मिनीकण्टकम् ३३ अजगल्लिका ३४ यव-प्रख्या ३५ अन्त्रालजी ३६ विवृता ३७ इन्द्रवृद्धा३८ गर्द्दभिका ३९ जालगर्द्दभः ४० कच्छपी ४१शर्करार्ब्बुदः ४२ । एषां मध्ये येषां लक्षणचिकित्सापूर्व्वं न लिखिता ते चात्र लिख्यन्ते ॥
* ॥
अथ अरुंषिकालक्षणमाह ।“अरूषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि ।कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम्” ॥
अरूंषि व्रणानि । अथारुंषिकायाश्चिकित्सा ।“नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः ॥
यष्ठीमधुकयुक्तश्च लेपाद्धन्यादरुंषिकाम् ।जिफलाया रजो यष्ठी मार्क्कवोत्पलसारिवा ।सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम्” ॥
इति त्रिकलाद्यं तैलम् ॥
* ॥
अथाग्निरोहिणीलक्षणमाह ।“कक्षाभागेषु ये स्फोटा जायन्ते मांसदारुणाः ।अन्तर्द्दाहज्वरकरा दीप्तपावकसन्निभाः ॥
सप्ताहात् द्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम् ।तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकाम्” ॥
सप्ताहादित्यादि वातपित्तकंफाधिकापेक्षया बो-द्धव्यम् । घ्नन्तीत्यनुपक्रान्ताः । उपक्रान्तास्तुसाध्या एव । चरकेणाग्निरोहिण्याश्चिकित्सायाउक्तत्वात् ।तस्याश्चिकित्सा ।“पित्तं वीसर्पविधिना साधयेदग्निरोहिणीम् ।रोहिण्यां लङ्घनं कुर्य्याद्रक्तमो क्षणरूपताम् ॥
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत्” ॥
* ॥
अथ विदारिकालक्षणमाह ।“विदारिकन्दवद्वृत्तो कक्षावङ्क्षणसन्धिषु ।रक्तो विदारिकां विद्यात् सर्व्वजां सर्व्वलक्षणाम्” ॥
अत्र पिडकामिति विशेष्यपदमध्याहरणीयम् ॥
अथ तच्चिकित्सा ।“विदारिकायां प्रथमं जलौकायोजनं हितम् ।पाटनञ्च विपक्रायां ततो व्रणविधिः स्मृतः” ॥
* ॥
अथावपाटिकालक्षणमाह ।“अल्पीयसीं यदा हर्षात् बलाद्गच्छेत् स्त्रियं नरः ।हस्ताभिघातादथवा चर्म्मण्युद्वर्त्तते बलात् ॥
मर्द्दनात् पीडनाद्वापि शुक्रवेगविघाततः ।यत्रावपाट्यते चर्म्म तां विद्यादवपाटिकाम् ॥
वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता ।पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता ॥
श्लेष्मणा कठिना स्निग्धा कण्डुमत्यल्पवेदना” ॥
अल्पीयः अल्पतरं योनिच्छिद्रं यस्यास्ताम् ।अवपाट्यते विदार्य्यते ।अथ तस्याश्चिकित्सा ।“स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाठिकाम्” ॥
अथ सन्निरुद्धगुदस्य लक्षणमाह ।“वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः ।निरुणद्धि महास्रोतः सूक्ष्मं द्वारं करोति हि ॥
मार्गस्य सौक्ष्म्यात कृच्छ्रेण पुरीषं तस्य गच्छति ।सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदुस्तरम्” ॥
अथ तस्य चिकित्सा ।“सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः ।तथा निरुद्धप्रकाशक्रियापि कथिता हिता” ॥
अथाजगल्लिकालक्षणमाह ।“स्निग्धा सवर्णा ग्रथिता निरुजा मुद्गसन्निभा ।कफवातोत्थिता ज्ञेया बालानामजगल्लिका” ॥
ग्रथिता गुम्फितेव मुद्गसन्निभा मुद्गाकृतिः ॥
अथ तस्याश्चिकित्सा ।“तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् ।शुक्तिशौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः ॥
कठिना क्षारयोगैश्च द्रावयेदजगल्लिकाम् ।श्यामालाङ्गलिकामूर्व्वाकल्कैरपि विलेपयेत् ॥
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्” ॥
अथान्त्रालजीलक्षणमाह ।“घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् ।अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम्” ॥
घनां कठिनाम् । परिमण्डलां वर्त्तुलाम् । अल्प-पूयां स्वल्पस्रावाम् ॥
अथ तस्याश्चिकित्सा ।“अन्त्रालजीं यवप्रख्यां पूर्व्वं स्वेदैरुपाचरेत् ।मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत् ॥
पक्वां ब्रणविधानेन यथोक्तेन प्रसाधयेत्” ॥
इति भावप्रकाशे क्षुद्ररोगाधिकारः ॥
(अस्य सकारणलक्षणसम्प्राप्तिचिकित्सितानि यथा, “स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसम्मिता ।पिटिका कफवाताभ्यां बालानामजगल्लिका ॥
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना ।अवक्त्राश्चालजीवृत्तास्तोकपूया घनोन्नताः ॥
ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नता ।कर्णस्योर्द्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक् ॥
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः ।हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्द्दभः ॥
शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः ।मेदोगर्भा मुखे यूनां ताभ्याञ्च मुखदूषिकाः ॥
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्ठकैः ।चीयते नीरुजैश्चैतैः शरीरं कफवातजैः ॥
पित्तेन पिटिकावृत्ता पक्वोदुम्बरसन्निभा ।महादाहज्वरकरी विवृता विवृतानना ॥
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः ।मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः ॥
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः ।या पद्मकर्णिकाकारा पिटिका पिटिकान्विता ॥
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी ।मण्डला विपुलोत्सन्ना सरागपिटिकाचिता ॥
कक्षेति कक्षासन्नेषु प्रायोदेशेषु सानिलात् ।पिजाद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ।तादृशी महर्ता त्वेका गन्धनामेति कीर्त्तिता ।घर्म्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः ॥
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः ।दोषैः पित्तोल्वणैर्मन्दैर्विसर्पति र्विसर्पवत् ॥
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्द्दभः ।मलैः पित्तोल्वणैः स्फोटा ज्वरिणो मांसदारुणाः ॥
कक्षाभागेषु जायन्ते येऽग्न्याभाः साग्निरोहिणी ।पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्ति जीरितम् ॥
त्रिलिङ्गा पिटिका वृत्ता जत्रूद्ध्वमिरिवेल्लिका ।विदारी कन्दकठिना विदारी कक्षवङ्क्षणे ॥
मेदोऽनिलकफैर्ग्रन्थिः स्नायुमांसशिराश्रयैः ।भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्वणोऽनिलः ॥
मांसं विशोष्य ग्रथितां शर्करामुपपादयेत् ॥
दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः ॥
तां स्रावयन्ति निचितां विन्द्यात्तच्छर्करार्ब्बुदम् ।पाणिपादतले सन्धौ जत्रूर्द्ध्वं वोपचीयते ॥
वल्मीकवच्छनेर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः ।रुग्दाहकण्डूक्लेदाढ्यो वल्मीकोऽसौ समस्तजः ॥
शर्करोन्मथिते पादे क्षते वा कण्टकादिमिः ।ग्रन्थिः कोलवदुत्सन्नो जायते कदरन्तु तत् ॥
वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम् ।अणूकरोति वाह्यान्तर्मार्गमस्य ततः शकृत् ॥
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदस्ततः ।कुर्य्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम् ॥
चिप्यमक्षतरोगञ्च विद्यादुपनखञ्च तम् ।कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः ॥
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः ।अङ्गुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान् ॥
कृष्णानवेदनांस्त्वक्स्थान् मांसांस्तानेव चोन्नतान् ।माषेभ्यस्तून्नततरांश्चर्म्मकीलान् सितासितान् ॥
तथाविधो जतुमणिः सहजो लोहितस्तु सः ।कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम् ॥
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु ।ण्यामलं मण्डल व्यङ्गं वक्त्रादन्यत्र नीलिका ॥
परुषं परुषस्पर्शं व्यङ्गं श्यानञ्च मारुतात् ।पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात् ॥
रक्ताद्रक्तान्तमाताम्रं शोषं चिमचिमायते ।वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥
ततस्त्वग् जायते पाण्डुः क्रमेण च विचेतना ।अल्पकण्डूरविक्लेदा सा प्रसुप्ति प्रसुप्तितः ॥
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ।मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च ॥
उत्कोठः सोऽनुबन्धस्तु कोठ इत्यभिधीयते ।प्रोक्ताः षट् त्रिंशदित्येते क्षुद्ररोगा विभागशः” ॥
इति वाभटे उत्तरस्याने एकत्रिंशोऽध्यायः ॥
अतोऽस्य प्रतिषेधो यथा, --“विस्राववेज्जलौकोभिरपक्वामजगल्लिकाम् ।स्वेदयित्वा यवप्रख्यां विलयाय विलेपयेत् ॥
दारुकुष्ठमनोह्वालैरित्यापाषाणगर्द्दभात् ।विधिसांश्चाचरेत् पक्वान् प्रणवत्साजगल्लिकान् ॥
रोध्रकुस्तम्बरुवचाप्रलेपो मुखदूषिके ।वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः ॥
अशान्तौ वभनं नस्यं ललाटे च शिराव्यधः ।निम्बाम्बु वान्तो निम्बान्बु साधितं पद्मकण्टके ॥
प्रिबेत् क्षौद्रान्वितं सर्पिनिम्बारग्बधलेपनम् ।विवृतादींस्त जातान्तांश्चिकित्सेन्निरिवेल्लिकान् ॥
पित्तवीसर्पवत्तद्वत् प्रत्याख्यायाग्निरोहिणीम् ॥
विलङ्घनं रक्तविमोक्षणञ्चविरूक्षणं कायविशोधनञ्च ।धात्रीप्रयोगान् शिशिरप्रदेहान्कुर्य्यात् सदा जालकगर्द्दभस्य ॥
विदारिकां हृते रक्ते श्लेष्मग्रन्थितदाचरेत् ।मेदोऽर्ब्बुदक्रियां कुर्य्यात् सुतरां शर्करार्ब्बुदे ॥
प्रवृद्ध सुबहुच्छिद्रं सशोफं मर्म्मणि स्थितम् ।वल्मीकं हस्तपादे च वर्ज्जयेदितरत् पुनः ॥
शुद्धस्यास्रे हृते लिम्बेत् सपट्वारैवतामृतैः ।श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः ॥
पक्वे तु दुष्टमांसानि गतीः सर्व्वाश्च शोधयेत् ।शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा ॥
शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत् ।निरुद्धमणिवत्कार्य्यं रुद्धपायोश्चिकित्सितम् ॥
चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्म्मणा ।दुष्टं कुनखमप्येवं चरणावलसे पुनः ॥
धान्याम्लसिक्तौकासीसपटोलीरोचनातिलैः ।सनिम्बपत्रैरालिम्पेद्दहेत्तु तिलकालकान् ॥
माषांश्च सूर्य्यकान्तेन क्षारेण यदि वाग्निना ।तद्वदुत्कृत्य शस्त्रेण चर्म्मकीलजतुमणी ॥
लाञ्छनादित्रये कुर्य्याद् यथासन्न सिराव्यधम् ।लेपयेत् क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः ॥
व्यङ्गेषु चार्ज्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ।लेपः सनवनीतावा श्वेताश्वखुरजामषी ॥
रक्तचन्दनमञ्जिष्ठा कुष्ठरोध्रप्रियङ्गवः ।वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥
द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह ।पिष्टाः कुर्व्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम् ॥
क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः ।मसूराः क्षीरपिष्टा वातीक्ष्णाः शाल्मलिकण्टकाः ॥
स गुडः कोलमज्जा वा शशासृक् क्षौद्रकल्कितः ।सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनान्वितम् ॥
पिष्टा वाच्छालपयसा सक्षौद्रा मौशलीजटा ।गौरस्थिमुशलीमूल-युक्तं वा साज्यमाक्षिकम् ॥
जम्ब्बाम्रपल्लवामस्तु हरिद्रे द्वे नवो गुडः ।लेपः सवर्णकृत् पिष्टं स्वरसेन च तिन्दुकम् ॥
उत्पलपत्रं तगरं प्रियङ्गुकालीयकदम्बदरमज्जा ।इदमुद्वर्त्तनमास्यं करोति शतपत्रसङ्काशम् ॥
एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत् ।यथादोषर्तुकान् स्नेहान् मधुकक्वाथसंयुतैः ॥
यवान् सर्ज्जरसं रोध्रमुशीरं चन्दनं मधु ।घृतं गुडञ्च गोमूत्रे पचेदादर्व्विलेपनात् ॥
तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान् ।मुखं करोति पद्माभं पादौ पद्मदलोपमौ ॥
कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम् ।न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेशरम् ॥
सनीलोत्पलमञ्जिष्ठं पालिकं सतिलाढके ।पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः ॥
लाक्षापत्तङ्गमञ्जिष्ठा यष्टीमधुककुङ्कुमैः ।अजाक्षीरद्विगुणितं तैलस्य कुडवं पचेत् ॥
नीलिकापलितव्यङ्गवलीतिलकदूषिकान् ।हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत् ॥
मञ्जिष्ठा शवरोद्भवस्तु वरिकालाक्षा हरिद्राद्वयंनेपालीहरितालकुङ्कुमगदागोरोचनागैरिकम् ।पत्रं पाण्डुरटस्य चन्दनयुगं कालीयकं पारदंपत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम् ॥
सिक्थं तुत्थं पद्मकाद्योतसाज्यंमज्जाक्षीरं क्षीरिवृक्षाम्बुचाग्नौ ।सिद्धं सिद्धं व्यङ्गनील्यादिनाशेवक्त्रेच्छायामैन्दवीञ्चाशु धत्ते ॥
मार्कवस्वरसक्षीरतोयपिष्टानि नावने ।प्रसुप्तौ वातकुष्ठोक्तं कुर्य्याद्दाहञ्च वह्निना ।उत्कोठे कफपित्तोक्तं कोठे सर्व्वञ्च कौष्ठिकम्” ॥
इति वाभट उत्तरतन्त्रे द्वात्रिंशोऽध्यायः ॥
“समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति ।तद्यथा, -- अजगल्लिका यवप्रख्याऽन्धालजी विवृताकच्छपिका वल्माकमिन्द्रवृद्धा पनसिका पाषाण-गर्द्दभो जालगर्द्दभः कक्षा विस्फोटकोऽग्निरो-हिणी चिप्पं कुनखोऽनुशयी विदारिका शर्करा-र्ब्बुदं पामा विचर्च्चिका रकसा पाददारिकाकदर-मलसेन्द्रलुप्तौ दारुणकोऽरुंषिका पलितं मसू-रिका यौवनपिडका पद्मिनीकण्टको जतुमणि-र्म्यशकश्चर्म्मकीलस्तिलकालको न्यच्छं व्यङ्गः परि-वर्त्तिकाऽवपाटिका निरुद्धप्रकाशः निरुद्धगुदो-ऽहिपूतनं वृषणकच्छूर्गुदभ्रंशश्चेति” ॥
इति सुश्रुतेनिदानस्थाने त्रयोदशेऽध्याये ॥
अत्रोक्तचिकित्सा-दिकं यथारोगं ज्ञेयम् ॥
* ॥
अस्य पथ्यापथ्यानि यथा, --“क्षुद्ररोगेषु सर्व्वेषु नानारोगानुकारिषु ।दोषान् दूष्यानवस्थाञ्च निरीक्ष्य मतिमान् भिषक् ॥
तस्य तस्य च रोगस्य पथ्यापथ्यानि सर्व्वशः ।यथादोषं यथादुष्टं यथावस्थञ्च कल्पयेत्” ॥
इति वैद्यकपथ्यापथ्यविधौ क्षुद्ररोगाधिकारः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
