| YouTube Channel

क्षुद्रगोक्षुरकः (kSudragokSurakaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुद्रगोक्षुरकः,
पुं,
(क्षुद्रः गोक्षुरः ततः स्वल्पार्थेकन् क्षुद्रगोक्षुर इव कायति इत्येके ।) गोक्षुर-वृक्षभेदः छोटा गोक्षुरु इति हरचिकारइति हिन्दी भावा तत्पर्य्यायः त्रिक-ण्टकः कण्टी षडङ्गः बहुकण्टकः ५क्षुरः गोकण्टकः कण्टफलः पलङ्कषा९ क्षुद्रक्षुरः १० भक्षटकः ११ स्थलशृङ्गाटकः१२ वनशृङ्गाटकः १३ इक्षुगन्धः १४ स्वादुकण्टः१५ अस्य गुणाः सुशीतलत्वम् बलप्रदत्वम् ।मधुरत्वम् बृंहणत्वम् कृच्छ्राश्मरीभेहविदाह-नाशित्वम् रसायनत्वम् तत्र बृहतो गुणो-त्तरत्वञ्च इति राजनिर्घण्टः