| YouTube Channel

क्षुद्रकुष्ठं (kSudrakuSThaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षुद्रकुष्ठं,
क्ली,
(क्षुद्रं अल्पं कुष्ठम् ।) स्वल्पकुष्ठरोगः ।तत्तु एकादशविधम् यथा क्षुद्रकुष्ठान्याह ।“एककुष्ठं स्मृतं पूर्व्वं गजचर्म्म ततः परम् ।ततश्चर्म्मदलं प्रोक्तं ततश्चापि विचर्च्चिका
विपादिकाभिधा स्यैव पामाकच्छू--६ स्ततः परा ।ततो दद्रुश्च विस्फोटः किटिभञ्च ततः परम्
ततश्चालसकं १० प्रोक्तं शतारुश्च ११ ततः परम् ।क्षुद्रकुष्टानि चैतानि कथितानि भिषग्वरैः”
ननु दद्रोः कथं क्षुद्रकुष्ठेषु गणना सुश्रुतेन महा-कुष्ठेषूक्तत्वात् उच्यते असिता गाढमूलादद्रुः मुश्रुते महाकुष्ठेपूक्ता असितेतरा नव-गाढमूला दद्रुः क्षुद्रकुष्ठमेव एवं विधाया दद्रो-श्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात्
*
कुष्ठानां त्रिदोषजत्वेनैकत्वे त्रिदोषस्योल्वणतयासप्तधात्वमाह ।“सर्व्वेष्वपि त्रिदोषेषु व्यपदेशाधिकत्वतः ।कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वं समागतैः”
सर्व्वेष्वपि कुष्ठेषु त्रिदोषजेषु सत्सु व्यपदेशाधिकत्वतः व्यपदेशः कापालादिसंज्ञास्तेषामष्टा-दशत्वरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा कै-र्दोषैः कथम्भूतैः पृथग्द्वन्द्वं समागतैः समागतैःसङ्गतैम्मिलितैरिति यावत् अस्यायमर्थः ।किमपि कुष्ठंवातोल्वणं किमपि पित्तोल्वणं कि-मपि कफोल्वणं किमपि वातपित्तोल्वणं किमपिवातश्लेष्मोल्वणं किमपि पित्तश्लेष्मोल्वणं किमपित्रिदोषोल्वणमिति
*
पूर्व्वरूपमाह ।“अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदौ विवर्णता ।दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि केवलम् ।रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्”
अतिश्लक्ष्णः अतिमृदुः अथवा खरः रूक्षःकर्क्वशो वा स्पर्शः स्वेदास्वेदौ घर्म्मादि सप्तसङ्गा-भावेऽपि स्वेदः अथवा घर्म्मादिप्रसङ्गेऽपि स्वेदा-भावः त्वचि स्वापः स्पर्शाज्ञता शीघ्रोत्पत्तिःशीघ्रा उत्पत्तिर्ब्रणानामित्यन्वयः
*
सम्प्राप्ति-पूर्व्वकं सामान्यं लक्षणमाह ।“शिराः प्रपद्य तिर्य्यक् त्वग्लसीकासृगामिषम् ।दूषयन्ति श्लथीकृत्य निश्चरन्तो वहिस्ततः
त्वचः कुर्व्वन्ति वैवर्ण्यं दोषाः कुष्ठमुषन्ति तत्”
तिर्य्यक् तिर्य्यग्गताः शिराः प्रपद्येत्यन्वयः
*
येनोल्वणेन दोषेण यत् कुष्ठं समुत्पद्यते तदाह ।“वातेन कुष्ठं कापालं पित्तेनौडुम्बरं कफात् ।मण्डलाख्यं विचर्च्ची ऋक्षाख्यं वातपित्ततः
चर्म्मैककुष्ठकिटिभसिध्मालसविपादिकाः
वातश्लेष्मोद्भवाः पित्तकफात् दद्रुशतारुषी
पुण्डरीकं सविस्फोटं पामा चर्म्मदलन्तथा ।सर्व्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः”
विचर्च्ची कफादित्यन्वयः
“पुण्डरीकं सविस्फोटं पामा चर्म्मदलन्तथा”
पित्तकफादित्यन्वयः
*
अथ क्षुद्रकुष्ठानांमध्ये एककुष्ठस्य लक्षणमाह ।“अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् ।तदेव कुष्ठंचर्म्माख्यं बहुलं हस्तिचर्म्मवत्”
महावास्तु महास्थानम् मत्स्यशकलोपमं अत्रशकलशब्देन लक्षणया त्वचमुच्यते तेन चक्रा-कारमभ्रकपत्रसदृशं भवति एककुष्ठमितिक्षुद्र-कुष्ठेषु मुख्यत्वात्
*
गजचर्म्माह ।“चर्म्माख्यं बहुलं हस्तिचर्म्मवत् रूक्षं कृष्णं च” ।गजचर्म्माख्यं बहुलं स्थूलं हस्तिचर्म्मवत् रूक्षंकृष्णञ्च
चर्म्मदलमाह ।“रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि ।तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते”
दलयत्यपि विदारयत्यपि चर्म्मेति शेषः
*
विचर्च्चिकामाह ।“सकण्डूः पिडका श्यावा बहुस्रावा विचर्च्चिका”पिडका क्षुद्रपिडका
*
ननु क्षुद्रकुष्ठानां कथ-मेकादशत्वम् विपादिकया द्वादशत्वसम्भवात्उच्यते विचर्च्चिकैव पादयोर्भवति विदारण-योगात् विपादिका तेन सङ्ख्यातिरेकः अतएवभोजः ।“दाल्यते त्वक्खरा रूक्षा पाण्योर्ज्ञेया विचर्च्चिका
पादे विपादिका ज्ञेयां स्थानभेदाद्विचर्च्चिका”
दाल्यते विदार्य्यते केचिद्विचर्च्चिकातो विपादिकांभिन्नमाहुः ।“वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्”
पाणिपादस्फुटनं पाण्योः पादयोश्च स्फटनं विदारणं येन तत्
पामामाह ।“सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाःपामेत्युक्ता पिडकाः कण्डुमत्यः” ।पिडकाः पीडयन्ति इति पिडका इति क्षिपका-दित्वान्निपात्यते
कच्छूमाह ।“सैव स्फोटैस्तीव्रदाहैरुपेताज्ञेया पाण्योः कच्छरुग्रा स्फिचोश्च”
सैव पामा स्फोटैर्भ्महद्भिः स्फिचौ प्रोथौ
दद्रूमाह ।“सकण्डूरागपिडकं दद्रूमण्डलमुद्गतम्”
दद्रूमण्डलं भण्डलरूपेणोत्पद्यते उद्गतमुच्छूनम्॥
विस्फोटमाह “स्फोटाः श्यावारुणा भासाविस्फोटाः स्युस्तनुत्वचः
किटिभमाह “श्यावंकिणखरस्पर्शं परुषं किटिभं स्मृतम्” किणखर-स्पर्शं किणः शुष्कव्रणस्थानं तद्वत् कर्क्कशस्पर्शम्
परुषं रूक्षम्
अलसकमाह ।“कण्डूमद्भिः सरागैश्च गण्डैरलसकञ्चितम्” ।गण्डैर्म्महापिडकाभिः चितं विचेष्टितम्
१०
शतारुषमाह ।“रक्तं श्यावं सदाहार्त्तिशतारुः स्याद्वहुव्रणम्”
११
अथ सप्तधातुगतानां कुष्ठानां लक्षणमाह तत्ररसगतस्य लक्षणमाह ।“त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते ।त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्”
त्वक्शब्देनात्र रस उच्यते धातुप्रस्तावात् त्वक्-स्थाच्च त्वक्स्वापः स्पर्शाज्ञत्वम् त्वक्स्वाप इत्या-दिकं केचिदत्र रक्तगतस्य लिङ्गं मन्यन्ते
रुधिरगतमाह ।“कण्डूर्व्विपूयकश्चैव कुष्ठे शोणितसम्भवे”
विपूयः विशेषेण पूयः
मांसगतमाह ।“बाहुल्यं रक्तशोषश्च कार्कश्यं पिडकोद्गमः ।तोदः स्फोटाः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते”
बाहुल्यं कुष्ठस्य पुष्टिः पिडकोद्गमः क्षुद्रपिडको-द्गमः स्फोटाः बृहत्पिडकाः स्थिरत्वं अंश-चारित्वम्
मेदोगतमाह ।“कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ।मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च”
कौण्यं हस्तनाशः अङ्गानां सम्भेदः अङ्गभङ्गः ।क्षतसर्पणं क्षतप्रसरणम् प्रागुक्तानि रक्तमांस-गतलिङ्गानि
अस्थिमज्जगतमाह ।“नासाभङ्गोऽक्षिरोगश्च क्षतेषु कृमिसम्भवः ।स्वरोपघातः पिडका भवेत् कुष्ठेऽस्थिमज्जगे”
शुक्रगतमाह ।“दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः ।यदपत्यं तयोर्ज्जातं ज्ञेयं तदपि कुष्ठितम्”
दम्पत्थोः स्त्रीपुरुषयोर्द्दुष्टशोणितशुक्रयोर्यदपत्यंतयोर्ज्जातमिति
*
ननु शुद्धशोणित-शुक्रयोरेव दम्पत्योर्गर्भसम्भवाद्दुष्टशोणितशुक्रयोःकथमपत्योत्पत्तिः यत आह सुश्रुतः ।“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः ।गर्भः सञ्जायते नार्य्याः जातो बाल उच्यते”
इति अन्यच्च वातादिदुष्टरेतसः प्रजोत्पादने नसमर्थाः इति उच्यते गर्भोऽत्र शुद्धो बोद्धव्यः
अशुद्धस्तु गर्भो दुष्टशोणितशुक्रयोरपि भवतिपङ्गुजन्मान्धबधिरादीनां सम्भवात् शोणितमत्रा-र्त्तवम् कुष्ठितं कुष्ठं संजातमस्येति तारकादि-त्वादितच् शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यतेइति तात्पर्य्यम्
*
कुष्ठेषूल्वणवातादि दोष-लिङ्गमाह ।“खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम् ।पित्तात् प्रकुपितं दाहरागस्रावान्वितं मतम्
कफात् क्लेदि घनं स्निग्धं सकण्डू शैत्यगौरवम् ।द्विलिङ्गद्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम्”
खरं कर्क्कशम् श्यावारुणं श्यावं चारुणञ्च प्रकु-पितं क्लेदपूतिबहुलम् क्लेदि आर्द्रतायुक्तम् ।घनं पुष्टम्
*
साध्यत्वादिकमाह ।“साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत् ।मेदोगं द्वन्द्वजं जाप्यं वर्ज्यं मज्जास्थिसंश्रितम्
कृमिकृद्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम्” ।वातश्लेष्माधिकञ्च यत् एतेन सिद्धैककुष्ठगजचर्म्म-विपादिकाकिटिभालसकानि साध्यानि मज्ज-प्रत्यासत्त्या शुक्रगतमप्यसाध्यम् कृमिकृदाद्यपिवर्ज्ज्यमित्यन्वयः
*
अरिष्टमाह ।“प्रभिन्नं प्रश्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् ।पञ्चकर्म्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम्”
प्रभिन्नं विदीर्णम् हतस्वरं घर्घरस्वरम् पञ्च-कर्म्मगुणातीतं असंजाताचमनादिपञ्चकर्म्मगुणम्
अथ त्वग्दृष्टिसाम्यात् कुष्ठभेदत्वाच्चात्रैव श्वित्रमाह ।“कुष्ठैकसम्भवं श्वित्रं किलासञ्चारुणं भवेत् ।निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्”
कुष्ठैकसम्भवं कुष्ठेन सह एकस्तुल्यः सम्भवोनिदानं यस्य तत्
*
श्वित्रस्य भेदानाह किलास-ञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात् कि-लासमरुणञ्च भवेदित्यर्थः
*
ननु कुष्ठस्यश्वित्रस्य को भेद इत्यत आह निर्द्दिष्टमपरि-स्रावीति श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्राविअथ त्रिधातूद्भवसंश्रयमिति त्रयो धातवोवातपित्तकफास्तेभ्यः पृथग्भूतेभ्य उद्भवो यस्यतत् अथ त्रयो धातवो रक्तमांसमेदांसि सं-श्रयोऽधिष्ठानं यस्य तत् कुष्ठं सान्निपातिकंसर्व्वधातुगतञ्च भवतीति भेदः
*
दोषभेदेन लक्षणभेदाणाह ।“वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।सदाहं रोमविध्वंसि कफाच्छेतं घनं गुरु
सकण्डूकं क्रमाद्रक्तं मांसमेदःसु चादिशेत् ।वर्णे नैवेदृगुभयं कुष्ठं तच्चोत्तरोत्तरम्”
अरुणमीषल्लोहितम् कमलपत्रवदित्यनेन मध्येश्वेतमन्ते लोहितं बोधयति घनं पुष्टम् क्रमा-द्रक्तं मांसमेदःसु चादिशेत् तथा चरकः ।“अरुणं रक्तगे वाते ताम्रं पित्ते पलं गते ।श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं परम्”
उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव अरुणंताम्रं श्वेतञ्च दोषभेदात् द्विविधं दोषजं व्रण-जञ्च तथा भोजः
श्वित्रन्तु द्विविधं विद्या-द्दोषञं व्रणजं तथा” इति
*
श्वित्रं साध्यमसाध्यञ्चाह ।“अशुक्लरोमाबहलमसंसृष्टमथो नवम् ।अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा”
अबहलं तनु अन्यच्च ।“गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् ।वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता”
गुह्यं मेहनं भगञ्च तलमत्र पादतलम् सुश्रुते-नान्ते जातमिति सामान्यतो निर्द्दिष्टत्वात् अ-चिरन्तनं नवमपि
*
कुष्ठस्य संसर्गजत्वे प्रस-ङ्गेनान्यानपि संसर्गजान् रोगानाह ।“प्रसङ्गात् गात्रसंस्पर्शात् निश्वासात् सहभोजनात् ।एकशय्याशनाच्चापि वस्त्रमाल्यानुलेपनात्
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव ।औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्”
प्रसङ्गात् प्रकर्षेण सङ्गः प्रसङ्गो मैथुनं तस्मात् ।गात्रसंस्पर्शात् तर्हि मैथुनादिति विशेषार्थम् ।वस्त्रमाल्यानुलेपनात् एकस्मादेव शोषो यक्ष्मा ।औपसर्गिकरोगाः शीतलादयः
*
सकुष्ठस्यमृतस्य पुनर्जातस्यापि कुष्ठं भवतीत्याह ।“म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत् ।नातो निन्द्यतरो रोगो यथा कुष्ठं प्रकीर्त्तितम्”
एतावता कुष्ठिनां कुष्ठं सर्व्वथा प्रतिकरणीयं नतदुपेक्षणीयम्
अथ कुष्ठस्य चिकित्सा ।“वातोत्तरेषु सर्पिर्व्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनञ्चेष्टम्”
“पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः ।विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत्”
अवल्गुजः वकुचीति लोके पथ्यादिर्लेपः
*
“सोमराजीभवं चूर्णं शृङ्गवेरसमन्वितम् ।उद्वर्त्तनमिदं हन्ति कुष्ठे रागकृतास्पदभ्”
सोमराजी वकुचीति लोके सोमराज्युद्वर्त्तनम्
“रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ।मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः
*
पुष्पकाले तु पुष्पाणि फलकाले फलानि ।संगृह्य पिचुमर्द्दस्य त्वङ्मलानि दलानि
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः
विडङ्गसारवाराहीलोहचूर्णामृताः समाः ।निशाद्वयावल्गुजकव्याधिघाताः सशर्क्कराः
कुष्ठमिन्द्रयवाः पाठा चूर्णमेषान्तु संयुतम् ।खदिरासननिम्बानां घनक्वाथेन भावयेत्
सप्तधा पञ्चनिम्बन्तु मार्कवस्य रसेन ।स्निग्धः शुद्धतनुर्द्धीमान् योजयेत्तच्छुभे दिने
मधुना तिक्तहविषा खदिरासनवारिणा ।लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत्
जीर्णे तस्मिन् सभश्नीयाद् स्निग्धं लधुहितञ्च यत्
विचर्च्चिकोदुम्बरपुण्डरीक-कपालदद्रूकिटिभालसादि ।शतारुविस्फोटविसर्पमालाःकफप्रकोपं त्रिविधं किलासम्
भगन्दरश्लीपदवातरक्त-जडान्ध्यनाडीव्रणशीर्षरोगान् ।सर्व्वान् प्रमेहान् प्रदरांश्च सर्व्वान्दंष्ट्राविषं मूलविषं निहन्ति
स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्म्मधुनोपयोगात् ।सदोषरोगादपि ये दशन्तिसर्पादयो यान्ति विनाशमाशु
जीवेच्चिरं व्याधिजराविमुक्तःशुभे रतश्चन्द्रसमानकान्तिः”
अयमर्थः निम्बस्य फल-पुष्प-त्वक्-पत्र-मूलानिसर्व्वाणि समुदितानि द्विगुणानि चूर्णितानि भृङ्ग-राजस्य रसेन सप्तवारान् भावयेत् त्रिफलादीनिपाठान्तानि समुदितान्येकभागानि चूर्णितानिखदिरासननिम्बानां निविडक्वाथेन भावयेत् ततःसर्व्वमेकीकृत्य मध्वादिनावलिह्यात् पञ्चनिम्बा-वलेहः
*
“शशिलेखापञ्चपलं तावद्गिरिजस्य गुग्गुलोर्द्दश ।ताप्यस्य पलत्रितयं द्वे लोहश्रावणीकायाः
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः ।मुस्ताविडङ्गरजनीकुटजत्वक्निम्बवह्निसम्पाकाः
एतै रचितां वटिकां मधुघृतमिश्रां गिलेत् प्रातः ।गोमूत्रेण कुष्ठं नुदन्त्यसृग्वातमचिरेण
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च ।नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना”
शशिलेखा सोमराजी गिरिजस्य शिलाजतुनः ।ताप्यस्य सुवर्णमाक्षिकस्य श्रावणिका मुण्डीइति लोके स्वायम्भुवो गुग्गुलुः
*
“चित्रकं त्रिफला व्योषमजाजी कारवी वचा ।सैन्धवातिविषे कुष्ठं चव्यैलायवशूकजम्
विडङ्गान्यजमोदा मुस्ता चामरदारु ।यावन्त्येतानि सर्व्वाणि तावन्मात्रन्तु गुग्गुलुम्
सङ्क्षुद्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक् ।प्रातर्भोजनकाले खादेदग्निबलं यथा
हन्त्यष्टादश कुष्ठानि कृमीन् दुष्टव्रणानि ।ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान्
गृध्रसीमस्थिभग्नञ्च गुल्मञ्चापि नियच्छति ।व्याधीन् कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान्”
एकविंशतिको गुग्गुलुः
*
“वातरक्ताधिकारोक्तः पुरः कैशोरकाविधः ।कुष्ठानां वातरक्तानां नाशाय परमौषधम्”
कैशोरको गुग्गुलुः
*
“भल्लातकं प्रस्थयुगं छित्त्वा द्रोणजले क्षिपेत् ।प्रस्थद्वयं गुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
चतुर्थांशावशेषन्तु कषायमवतारयेत् ।वस्त्रपूते कषाये वक्ष्यमाणानि निःक्षिपेत्
सरावमात्रं गोसर्पिर्गोदुग्धस्याढकं तथा ।सितां प्रस्थमितां दद्यात् प्रस्थार्द्धं माक्षिकं क्षिपेत्
सर्व्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः ।सर्व्वद्रव्ये घनीभूते पावकादवतारयेत्
तत्र क्षेप्याणि चूर्णानि ब्रूमो विल्वमितामृता ।वाकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी
धात्री रात्रिश्च मञ्जिष्ठा मरिचं नागरं कणा ।यवानी सैन्धवं मुस्तं त्यगेला नागकेशरम्
पर्पटः पत्रकं बालमुशीरं चन्दनं तथा ।गोक्षुरम्य वीजानि कर्च्चूरो रक्तचन्दनम्
पृथक पलार्द्धमानानां चूर्णमेषामिह क्षिपेत् ।पलमात्रमिदं प्रातः समश्नीयाज्जलेन हि
नाशयेदवलेहोऽयं कुष्ठानि निखिलान्यपि ।वातरक्तानि सर्व्वाणि सर्व्वाण्यर्शांसि मेवितः
व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम् ।तैलाभ्यङ्गं तथाध्वानं नरो भल्लातके त्यजेत्”
इति अमृतभल्लातकावलेहः
*
“निम्बं गोपारुणा कट्वी त्रायन्ती त्रिफला घनम् ।पर्पठावल्गुजानन्ता वचा खदिरचन्दनम्
पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रयवानलम्
हस्तिकर्णोऽमृता द्रेका पटोलं रजनीद्वयम् ।कणारग्बधसप्ताह्वकृष्णवेत्रोच्चटाफलम्
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालः पुनर्नवा ।दन्ती विजयसारश्च भृङ्गराजः कुरण्टकम्
अङ्कोठकं शाखोटं द्विपलांशं पृथक् पृथक् ।गृह्णीयात्तानि सर्व्वाणि जलद्रोणे पचेच्छनैः
अष्टमांशावशेषन्तु कषायमवतारयेत् ।विधाय वाससा पूतं स्थापयेद्भाजने दृढे
भल्लातकसहस्राणि क्षिप्त्वा त्रीण्यर्म्मणेऽम्भसि ।पचेदष्टावशेषन्तु कषायमवतारयेत्
तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत् ।गुडस्य तु तुलां दत्त्वा लेहवत् साधु साधयेत्
भल्लातकसहस्राणि तच्च बीजानि विक्षिपेत् ।त्रिकटु त्रिफला मुस्तं विडद्गं चित्रकं तथा
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक् ।सौगन्ध्यर्थं क्षिपेत्तत्र चातुर्जातं पलं पलम्
महाभल्लातको ह्येष महादेवेन भाषितः ।प्राणिनां हितकामाय जयेच्छीघ्रं प्रयोगतः
श्वित्रमौडुम्बरं दद्रूमृक्षजिह्वं सकाकणम् ।पुण्डरीकञ्च चर्म्माख्यं विस्फोटं रक्तमण्डलम्
फण्डुं कापालकं कुष्ठं पामानञ्च विपादिकाम् ।वातरक्तं षडर्शांसि पाण्डुरोगं व्रणं कृमीन्
रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम् ।सदाभ्यासेन पलितमामवातं सुदुस्तरम्
निर्यन्त्रणस्तु कथितो विहाराहारमैथुनैः ।कुरुते परमां कान्तिं प्रदीप्तं जठरानलम्
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा ।भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः”
गोपा गां पातीति गोपा गोपकन्या श्वेत साउइति लोके यत आह निर्घण्टः “शारिवाशार-दास्फोटा गोपकन्या प्रतानिका” इति तद्वाचकोगोपीशब्दश्च यत आह गोपी श्यामा शारीवास्यादनन्तोत्पलशारिवेत्यमरः
गोपाङ्गना गोप-वल्ली लताह्वा काष्ठशारिवेति मदनपालः
अरुणाअतीस अवल्गुजः सोमराजी अनन्ता दुरा-लभा चन्दनं श्वेतम् भार्ग्या अलाभे कण्टकारी-मूलं गृह्णीयात् श्यामा कृष्ण साउ हस्तिकर्णःहथिकण द्रेका वकाइनि सप्ताह्वः छतिवन ।कृष्णवेत्रः जलवेतस उच्चटाफलं आरक्तगुञ्जा-फलम् कुरण्टकः पीतपुष्पकटसरैया दीप्यकःयवानी महाभल्लातकः
*
“मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशामृता ।निम्बश्चैषां कृतः क्वाथः सर्व्वकुष्ठानि नाशयेत्”
इति लघमञ्जिष्ठादिक्वाथः
*
“मञ्जिष्ठा वाकुची चक्रमर्द्दश्च पिचुमर्द्दकः ।हरीतकी हरिद्रा धात्री वासा शतावरी
बला नागबला षष्टीमधुकं क्षु रकोऽपि ।पटोलस्य लतोशीरं गुडूची रक्तचन्दनम्
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः ।वातरक्तस्य संहर्त्ता कण्डू मण्डलखण्डनः”
इति मध्यममञ्जिष्ठादिक्वाथः
*
“मञ्जिष्ठा कुटजामृता घनवचाशुण्ठीहरिद्राद्वयंक्षुद्रारिष्टपटोलकुष्ठकटुकाभार्गीविडङ्गाग्निकम् ।मूर्व्वादारुकलिङ्गभृङ्गमगधात्रायन्तिपाठावरी ।गायत्त्रीत्रिफलाकिरातकमहानिम्बासनारग्बधम्
श्यामावल्गुजचन्दनं वरुणकं दन्तो शाखोटकंवासा पर्पटसारिवा प्रतिविषानन्ता विशाला जलम्
मञ्जिष्ठादिरयं कषायमिति यः संसेवते तस्य तुत्वग्दोषा ह्यचिरेण यान्ति विलयं कुष्ठानि चाष्टादश
नाशं गच्छति वातरक्तमखिलं नश्यन्ति रक्तामवावीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च”
अरिष्टः निम्बः कलिङ्गमिन्द्रयवम् भृङ्गं भङ्गरा ।वरी शतावरी गायत्त्री खदिरः असनः वि-जयसारः श्यामा प्रियङ्गुः चन्दनमत्र रक्तंग्राह्यम् सारिवा साउ अनन्ता दुरालभा ।विशाला इन्द्रवारुणी जलं नेत्रवांला ।इति बृहन्मञ्जिष्ठादिक्वाथः
*
“मरिचं त्रिवृता मुस्ता हरितालं मनःशिला ।देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्
विशालां करवीरञ्च क्षीरमर्कसमुद्भवम् ।गोमयस्य रसं कुर्य्यात् प्रत्येकं कर्षसंमितम्
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु ।पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा
मरिचाद्यमिदं तैलमभ्यङ्गात् कुष्ठनाशनम् ।एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणात् भवेत्
तैलमेतत् जयेत् कण्डूं पामां सिघ्मं विचर्च्चिकाम् ।पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम्
इति लघुमरिचाद्यं तैलम्
*
“मरिचं त्रिवृता दन्ती क्षीरमार्कशकृद्रसः ।देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्
विशाला करवीरश्च हरितालं मनःशिला ।चित्रकं लाङ्गली मुस्ता विडङ्गं चक्रमर्द्दकः
शिरीषः कुटजो निम्बः सप्तपर्णोऽमृता स्नुही ।सम्पाको नक्तमालश्च खदिरो वाकुची वचा
ज्योतिष्मती पलिका विषं द्विपलिकं भवेत् ।आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम्
मृत्पात्रे लोहपात्रे वा शनैर्म्मृ द्वग्निना पचेत् ।मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम्
भिषगेतेन तैलेन म्रक्षयेत् कोष्ठिकान् व्रणान् ।पामाविचर्च्चि कादद्रुकण्डू विस्फोटकानि
वली पलितं छाया नीलं व्यङ्गं तथैव ।अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते ।तासामपि जरां प्राप्य स्यातां स्खलितौ स्तनौ
वलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ।त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः”
ज्योतिष्मती मालकङ्गुनी इति लोके ।इति महामरिचादितैलम्
*
“तालकस्य तु पत्राणि यस्य सन्ति पृथक् पृथक् ।अभ्रकस्यैव तद्ग्राह्यं हरितालं चिकित्सकैः
पुनर्नवायाः सरसे तालकं तद्विमर्द्दयेत् ।दिनमेंकं ततस्तस्मिन् घनत्वं गमिते सति
कुर्व्वीत चक्रिकां तां तु शोषयेत् सम्यगातपे ।पुनर्नवासमस्ताङ्गक्षारे स्थालीं गलावधि
पूरयेच्च ततः क्षारं द्रढयेत् पीडनेन हि ।क्षारस्योपरि तां दद्यात् तालकस्य तु चक्रिकाम्
तत आच्छादनं दत्त्वा मुद्रां कृत्वा विशोषयेत् ।स्थालीं चुल्ल्यां निधायाग्निममन्दं ज्वालयेत् भिषक्
निरन्तरमहोरात्रपञ्चकं तेन सिध्यति ।स्वाङ्गशीतं समुत्तार्य्य गृह्णीयाद्रसमुत्तमम्
तालकेश्वरनामायं भुक्तो गुञ्जामितो रसः ।गुडूच्यादिकषायेण गदानेतान् विनाशयेत्
अष्टादशापि कुष्ठानि वातरक्तं तथोद्धतम् ।फिरङ्गदेशजं रोगं दुस्तरञ्च व्यपोहति
एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ।तथा कटुरसं वह्निमातपं दूरतस्तजेत्
लवणं यः परित्यक्तुं शक्नोति कथञ्चन ।स तु सैन्धवमश्नीयात् मधुरोपरसो हि सः”
इति तालकेश्वरो रसः
*
“तालताप्यशिलासूतटङ्कणं सिन्धुसंयुतम् ।गन्धार्कौ द्विगुणौ सूताज्जम्बीराद्भिः प्रमर्द्दयेत्
षडहं पुटितं षोढा भूधरे सकलं त्विदम् ।षट्पलं द्विपलं ताम्रं लोहभस्म चतुष्पलम् ।जम्बीराद्भिर्दिनं घृष्टं त्रिंशदंशं विषं क्षिपेत् ।अस्य माषद्वयं खादेन्महिषीघृतसंयुतम्
मध्वाज्यैर्व्वाकुचीबीजैः कर्षं लिह्यात्ततः परम् ।तालकेश्वरनामायं सर्व्वकुष्ठहरो रसः” ।अर्को मारितं ताम्रम् द्वितीयतालकेश्वरो रसः
*
“रसो वलिस्ताम्रमयः पुरोऽग्निःशिलाजतु स्याद्विषतिन्दुकश्च ।वरा तुल्यं गगनं करञ्ज-बीजं पृथग्भागचतुष्टयञ्च
संमर्द्य सर्व्वं मधुना घृतेनघृतस्य पात्रे निहितं प्रंयत्नात् ।कर्षं भजेत् प्रत्यहमस्य पथ्यंशाल्योदनं दुग्धमधुत्रयञ्च
विशीर्णकर्णाङ्गुलिनासिकोऽपिभवेदनेन स्मरतुल्यमूर्त्तिः ।दारापरित्याग इह प्रदिष्टोजलौदनं तत्र निबद्धमूले”
ताम्रमयश्च मारितम् पुरो गुग्गुलुः अग्नि-श्चित्रकम् विषतिन्दुकः कुचिला वरा त्रिफला ।रसादि त्रिफलान्तं सर्व्वं तुल्यम् गगनमभ्रकम् ।करञ्जबीजञ्च पृथक् चतुर्गुणं रसात् तत्र कुष्ठेबद्धमूले सति जलौदनमेव पथ्यम् ।इति गलत्कुष्ठारिरसः
*
“अथ नागवधाख्यस्य रसस्य विधिरुच्यत
यः पुरा मुनिवरैरुदाहृतोयश्चिकित्सकजनैः समाहृतः ।यस्तु कुष्ठपरमोपकारकोनागमारणविधिः लिख्यते
सुपक्वां स्थालिकामेकामाढकाम्बुधृतिक्षमाम् ।गुडचूर्णकृतैः पङ्कैरागलं लेपयेद्वहिः
गन्धकं भिषगानीय शरावमितमुत्तमम् ।चूर्णयित्वा तदर्द्धन्तु तस्यां स्थाल्यां प्रसारयेत्
शरावार्द्धस्य ताम्रस्य पत्राण्यतितनूनि ।स्थाल्यां यद्गन्धकं तस्मिन्नुपर्य्युपरि धारयेत्
शरावार्द्धस्य सीसस्य पत्राणि तनूनि ।धारयेत्ताम्रपत्राणामुपर्य्येव तथैव
गन्धकस्य शरावार्द्धं यत्राणामन्तरान्तरा ।दत्त्वा तस्यावशेषन्तु सर्व्वेषामुपरि क्षिपेत्
ततः पिधानं दत्त्वा तु विदध्यात् सन्धिमुद्रणम् ।गुडं चूर्णञ्च खदिरं मिश्रयेत्तेन मुद्रयेत्
मुद्रां संशोष्य तां स्थालीं चुल्ल्यामुपरि धारयेत् ।तदधो ज्वालयेदग्निं द्वादशप्रहरावधि
स्वाङ्गशीतं समुत्तार्य्य ततो निष्काश्य चौषधम् ।शिलायां चूर्णयित्वा तु वस्त्रपूतञ्च कारयेत्
त्रिद्रोणजलयोग्यन्तु विशालास्यं महाघटम् ।गुडचूर्णकृतैः पङ्कैरागलं लेपयेद्वहिः
सर्पः षष्ट्यङ्गुलायामः सार्द्धषष्ट्यङ्गुलोऽथवा ।फणिकः कृष्णवर्णः स्यात् किं वा गोधूमवर्णवान्
वधस्तस्य विधातव्यो यथा देहो भिद्यते ।तालकं सदलं यत्तच्चूर्णयेत् कुडवद्वयम्
विषं पलमितं क्षुण्णं दत्त्वा दत्त्वान्तरान्तरम् ।हरितालस्य चूर्णेन पूरयेद्भुजगोदरम्
विषं पलमितं क्षुण्णं वाकुचीं पलसंमिताम् ।भल्लातकं सुपक्वं यत् प्रस्थमैन्द्रयवं तथा
सर्व्वाणि सम्यगास्तीर्य्य धारयेत महाघटे ।तेषामुपरि सर्पञ्च धारयेत् कुण्डलीकृतम्
सर्पस्योपरि संछिद्य धार्य्याण्येतानि पीडनैः ।सनालमर्कपत्रं तु शरावयुगलं क्षिपेत्
स्नुहीदलं सनालञ्च क्षिपेत् प्रस्थमितं तथा ।वटप्ररोहं प्रस्थं कुमारीं प्रस्थसंमिताम्
दत्त्वा पिधानं चूर्णेन गुडेन खदिरेण ।मुद्रयेत् सह वस्त्रेण मृदा कुटितयापि
मुद्रां संशोष्य चुल्ल्यान्तु धारयेत्तं महाघटे ।तदधो ज्वालयेदग्निं याममेकं यथौदने
ततो हठाग्निर्दातव्यो यावत् स्युः प्रहरा दश ।पुनः प्रहरमेकञ्च वह्निं दद्याद्यथौदने
ततो लौहे कटाहे तु शरावत्रितयोन्मिते ।गोघृतं प्रक्षिपेत् सर्व्वमौषधं यद्घटे स्थितम्
दत्त्वाग्निं चालयेत्तावद्यावदुत्तिष्ठतेऽनलः ।भेषजं भवेच्छ्वेतं ततस्तस्मिन् परिक्षिपेत्
भृष्टायाः स्फटिकाख्याया द्वे पले तत्र निःक्षिपेत् ।भृष्टस्य टङ्कणस्यापि पलयुग्मञ्च निःक्षिपेत्
ततः प्रहरमेकं तच्चालयेच्चुल्लिकोपरि ।ततस्ताम्रञ्च सासञ्च मिश्रयित्वावतारयेत्
रसो नागवधाख्योऽयं विधिनानेन सिध्यतिआदौ गुञ्जामितं खादेत्तावन्मरिचसंयुतम्
क्रमेण वर्द्धयेत्तावद्यावद्गुञ्जाचतुष्टयम् ।वर्द्धयेन्मरिचञ्चापि तथैव हि यथारसम्
यवस्य पर्पटीं भोक्तुं दद्याद्धा षष्टिकौदनम् ।लवणं वर्जयेत् सप्त दिनानि गुणलोलुपः
लवणं यः परित्यक्तुं शक्नोति कथञ्चन ।सैन्धवं खादयेत्तेन तच्च सप्तदिनोपरि
रसेनानेन नश्यन्ति कुष्ठानि सकलान्यपि ।सन्निपाताश्च नश्यन्ति राजयक्ष्मादयस्तथा
इति नागवधाख्यो रसः
*
अथ विशिष्टानांकुष्ठानां चिकित्सा तत्र सिध्मस्य चिकित्सा ।“कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपा रजनी ।एतत् केशरषष्ठं निहन्ति बहुवार्षिकं सिध्मम्
शिरीषरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम् ।क्षारेण वा कदल्या रजनीमिश्रेण नाशयति
दार्वी मूलकबीजानि तालकः सुरदारु ।ताम्बूलपत्रं सर्व्वाणि कार्षिकाणि पृथक् पृथक्
शङ्खचूर्णन्तु शाणः स्यात् सर्व्वाण्येकत्र वारिणा ।पेषयेत प्रलेपोऽयं सिध्मानां नाशनः परः”
*
अथ चर्म्मदलस्य चिकित्सा ।“सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता ।ताम्रपात्रे विनिर्घृष्ठा लेपाच्चर्म्मदलापहा”
आम्रपेशी आमचूर ।“सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि ।कराभ्यां सुखमाप्नोति नरश्चर्म्मदलान्वितः”
*
अथ पामाचिकित्सा ।“जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा ।कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम्”
कटुतैलं षट्पलमितम् जीरकादितैलम्
*
“मञ्जिष्ठात्रिफलालाक्षालाङ्गलीरात्रिगन्धकैः ।चूर्णितैस्तैलमादित्यपाकं पामाहरं परम्”
इति आदित्यपाकतैलम्
“सैन्धवं चक्रमर्द्दश्च सर्षपाः पिप्पली तथा ।आरनालेन संपिष्टाः पामकण्डूहराः स्मृताः”
*
अथ कच्छूचिकित्सा ।“अर्क्कपत्ररसे पक्वं हरिद्राकल्कसंयुतम् ।नाशयेत् सार्षपं तैलं पामां कच्छूं विचर्च्चिकाम्”
अर्कतैलम् ।“मनःशिलालं कासीसं गन्धाश्मा सिन्धुजन्म ।स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी
लाङ्गलीकरवीरश्च दद्रुघ्नः कृमिहानलः ।दन्तीनिम्बदलञ्चैभिः पृथक्कर्षमितैर्भिषक्
कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितम् ।अर्कसीहुण्डदुग्धेन पृथक्पलमितेन
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत् ।अभ्यङ्गेन हरेदेतत् कच्छूदुःसाध्यतामपि
पामानञ्च तथा कण्डू त्वग्व्याधिरुधिरामयान् ।कच्छूराक्षसनामेदं तैलं हारीतभाषितम्
इति कच्छूराक्षसनामतैलम्
*
अथ दद्रुचिकित्सा ।“कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः ।अम्लपिष्टाः प्रलेपोऽयं दद्रुकुष्ठनिसूदनः
दूर्व्वाऽभयासैन्धवचक्रमर्द-कुठैरकाः काञ्चिकतक्रपिष्टाः ।त्रिभिः प्रलेपैरपि बद्धमूलंदद्रुञ्च कुष्ठञ्च विनाशयन्ति
कुठेरकः ममरी इति लोके ।लोके गण्डिलकाख्या सिद्धार्थश्च स्नुहीक्षीरम् ।त्रयमिति समभागं स्यादेषां द्विगुणस्तु दद्रुघ्नः
अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात् ।दिवसत्रितयादूर्द्धं सम्यङ्निष्पेषयेत्तानि
वन्योपलेन घृष्ट्वा दद्रुमालेपयेत्तेन
सप्ताहाल्लेपोऽयं दद्रुमवश्यं विनाशयति”
*
अथ श्वित्रस्य चिकित्सा ।“विभीतकत्वङ्मलपूजटानांक्वाथेन कृत्वा गुडसंयुतेन ।अवल्गुजं बीजमपाकरोतिश्वित्राणि कृच्छ्राण्यपि पुण्डरीकम्”
मलपूः काकोडुम्बरिका अवल्गुजः सोमराजी ।“कुडवावल्गुजबीजं हरितालं तच्चतुर्थांशम् ।मनःशिला तालकार्द्धा गुञ्जाफलमग्निमूलञ्च
मूत्रेण गवां पिष्टं सुवर्णताकारकं श्वित्रस्य ।श्वित्रकुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
गिरिकर्ण्या सितायाश्च मूलेन परिलेपितम्”
गिरिकर्णी नीलापराजिता
“क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः ।शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति
मथितेन पिबेत् चूर्णं काकोडुम्बर्य्यवल्गुजम् ।तैलाक्तो घर्म्मसेवी स्यात्तक्राशी श्वित्रहृत् भवेत्”
मथितं निर्ज्जलं विलोडितं दधि ।तक्रं चतुर्थांशजलयुक्तं वस्त्रपूतं दधि ।“खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् ।त्रिफला पिचुमर्द्दश्च दारु दार्व्वथ पर्पटी
पृथक् पलांशमुद्धृत्य सिंहिकायाः पलद्वयम् ।जलाढकद्रये साध्यं यावत् पादावशेषितम्
क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् ।चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
पटोलमूलं त्रिफलां त्रायमाणां दुरालभाम् ।कर्षार्द्धं कटुकं चापि कार्षिकं सूक्ष्मपेषितम्
पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत् ।सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम्
अष्टादशानां कुष्ठानां परमञ्चैतदौषधम् ।सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा
लोकानामुपकाराव श्वित्रकुष्ठादिरोगिणाम्”
इति सोमराजीघृतम्
“महौषर्ध महामेदा निम्बपत्राणि सर्षपाः ।मनःशिला सिन्दूरं पद्मचारिण्यवल्गुजम्
हरिद्रे हरितालञ्च त्रिफला पीतगन्धकः ।एतानि सभभागानि विषार्द्धांशानि योजयेत्
सर्पिषश्च पलान्यष्टौ देवदारुरसं शुभम् ।द्विगुणं त्रिगुणं क्षीरं गोमृत्रञ्च चतुर्गुणम्
ताम्रपात्त्रे तु संस्याप्य शनैर्म्मृद्वग्निना पचेत् ।चतुर्मागावशेषन्तु सकल्कमवतारयेत्
अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः ।अभ्यङ्गपानयोर्गोगादाशु सर्व्वान् गदान् जयेत्
अष्टादशाना कुष्ठानां दद्रूणां श्वित्रिणां तथा ।दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा
असृक्स्रावपरीता ये ये त्यक्तभिषक्क्रियाः ।सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषतः
सर्व्वधातुगते कुष्ठे पतितं भूशिरोरुहम् ।घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम्
पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः ।सप्तरात्रप्रयोगेण सर्व्वकुष्ठानि नाशयेत्
द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः ।जातकेशनखश्मश्रुर्भाति षोडषवर्षवत्
अनङ्गसदृशः साक्षात् सर्व्वामयविनाशनः ।एतत् घृतं महाश्रेष्ठं भार्गवेणावतारितम्
मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् ।महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम्”
इति महामार्त्तण्डघृतम्
*
इति कुष्ठाधि-कारः
इति भावप्रकाशः