| YouTube Channel

क्षुद्रः (kSudraH)

 
Wordnet
Sanskrit
Synonyms:
कटुकीटः, दंशः, पुत्तिका, भम्भरालिका, मशः, मशकः, मलिम्लुचः, रणरणः, सूचीतुण्डः, सूचीमुखः, सूच्यास्यः, वज्रतुण्डः, सूक्ष्ममक्षिका, क्षुद्रः
noun
झिरीविशेषः।
"बालाः कटुकीटं ग्रहितुम् अयतन्त।"
Synonyms:
अधमः, क्षुद्रः, नीचः, नराधमः, अवमः
noun
भयदयालज्जाशून्यः पुरुषः।
"अधमः नीचकार्यं कर्तुं बिभेति।"
शब्दकल्पद्रुमः
Sanskrit
क्षुद्रः,
पुं,
(क्षुदि + “स्फायितञ्चिवञ्चिंशकिक्षिपि-क्षुदीति” उणां १३ इति रक् ।) तण्डु-लावयवः इति मंक्षिप्तसारोणादिवृत्तिः
डहुः इति शब्दरत्नावली
(मक्षिकाविशेषः ।यदुक्तम् ।“मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु ।मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्”
)
क्षुद्रः, त्रि, (क्षुद् + “स्फायितञ्चीति” उणां ।१३ इति रक् ।) कृपणः अधमः (यथा, कुमारे १२ ।“क्षुद्रेऽपि नूनं शरणं प्रपन्नेममत्वभुच्चैः शिरसां सतीव”
तुच्छः यथा, गीतायाम् ।“क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोतिष्ठ परन्तप !”
)क्ररः अल्पः इत्यमरमेदिनीकरौ
(यथा, महा-भारते आरण्ययात्रापर्व्वणि १० २४ ।“तं भीमः समरश्लाघी बलेन बलिनाम्बरः ।जघान पशुमारेण व्याध्रः क्षुद्रमृगं यथा”
)दरिद्रः इति हेमचन्द्रः