| YouTube Channel

क्षीष् (kSIS)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षी
मूलधातुः:
क्षीष्
धात्वर्थः:
हिंसायाम्
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्षिणाति
अनुबन्धादिविशेषः:
प्वादिः, षित्
धातुप्रदीपः
Sanskrit
क्षीष् हिंसायाम्
- क्षीणाति क्षिया क्षीत्वा क्षीतवान् (11) क्षीतम् 37
धातुवृत्तिः
Sanskrit
क्षीष् (अर्थः) हिंसायाम्
( क्षीणाति चिक्षाय ) इत्यादि व्रीवत् षित्वादङ्, ( क्षीयः क्षीत्वा क्षीतवान् ) "क्षियो दीर्घात्'' इति निष्ठानत्वं ह्रस्वान्तस्य क्षियो "निष्ठायामण्यदर्थे'' इति कृतदीर्घस्य क्षये क्षयतीति शपि क्षियतीति निवासगत्योः क्षिणोतीति तनोत्यादौ हिंसायाम् 35
कृदन्तरूपमाला
Sanskrit
1 {@“क्षीष् हिंसायाम्”@} 2 प्वादिः।
‘क्षये क्षयति, हिंसायां क्षिणातीति षितो भवेत्।
निवासगत्योः क्षियति, क्षिणोत्यावगुणे क्षिणोः।।’ 3 इति देवः।
4 क्षायकः-यिका, क्षायकः-यिका, चिक्षीषकः-षिका, चेक्षीयकः-यिका
इत्यादीनि रूपाणि भौवादिकक्षयतिवत् 5 ज्ञेयानि।
अस्य धातोः 6 क्षिणन्-ती, 7 क्षिया, 8 क्षीतः-तम्-तवान्, क्षीत्वा, 9 प्रक्षेतुम् इति रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(३१२)
02
=>
(९-क्र्यादिः-१५०६। सक। अनि। पर।)
03
=>
(श्लो-१२-१३।)
04
=>
[पृष्ठम्०३२६+ २६]
05
=>
(३०२)
06
=>
[[१। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति शिति परे अङ्गस्य ह्रस्वः। णत्वम्। धातुपाठे ‘प्ली गतौ’ इत्यनन्तरं पठ्यमानेन वृत्क- रणेन ल्वादिपरिसमाप्तिरेव बोध्यते। तु प्वादिगणपरिसमाप्तिः। केचित्तु धातुममुं ‘क्षिष् हिंसायाम्’ इति पठन्ति।]]
07
=>
[[२। षित्त्वात् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यङि धातोः इयङादेशः। स्त्रियां टाप्।]]
08
=>
[[३। ‘क्षियो दीर्घात्’ (८-२-४६) इत्यत्र निरनुबन्धकपरिभाषया नास्य ग्रहणम्। तेन निष्ठानत्वं न।]]
09
=>
[[आ। ‘व्रीताशबृंहितजुषाऽभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन। बद्धः करेण भगवान् विहृतिं वृणानः श्रथ्नन् निबद्धममुमाशु तलैरमथ्नात्।।’ धा। का। ३-९।]]