| YouTube Channel

क्षीवु (kSIvu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षीव्
मूलधातुः:
क्षीवु
धात्वर्थः:
निरसने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्षीवति
अनुबन्धादिविशेषः:
उदित्
धातुवृत्तिः
Sanskrit
क्षीवुँ क्षीवु (अर्थः) निरसने
( क्षीवतीत्यादि ) उदित्त्वात् क्त्वायामिङ्विकल्पः ( क्षीवित्वा क्ष्यूत्वा ) इडभावे ऊठि यणादेशो निष्ठायां "यस्य विभाषा'' इतीड्निषेधात् ( क्ष्यूतः) क्षेवु निरसन इति चन्द्रः ( क्षेवतीत्यादि ) 560
कृदन्तरूपमाला
Sanskrit
1 {@“क्षीवु निरसने”@} 2 क्षीवकः-विका, क्षीवकः-विका, चिक्षीविषकः-षिका, चेक्षीवकः-विका, इत्यादीनि रूपाणि क्षीजधातुवत् 3 ज्ञेयानि।
इमानि तु विशेषः- उदित्त्वात् निष्ठायां-- ‘यस्य विभाषा’ 4 इत्यनिट्त्वम्।
तेन क्ष्यूतम्-तः-तवान् इति रूपम्।
‘च्छ्वोः शूडनुनासिके च’ 5 इति वकारस्य ऊठ्।
यण्।
क्त्वायाम्--क्ष्यूत्वा-क्षीवित्वा-इति रूपद्वयम्।
उदित्त्वाद्धातोः--‘उदितो वा’ 6 इति क्त्वायामिड्विकल्पः।
इट्पक्षे क्षीवित्वा।
इडभावपक्षे ऊठ्।
क्तिनि क्ष्यूतिः इति।
प्रासङ्गिक्यः
01
=>
(३११)
02
=>
(१-भ्वादिः-५६७। सक। सेट्। पर।)
03
=>
(३०९)
04
=>
(७-२-१५)
05
=>
(६-४-१९)
06
=>
(७-२-५६)