| YouTube Channel

क्षीवः (kSIvaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षीवः, त्रि, (क्षीवृ ङ् मदे + क्तः “अनुपसर्गात्फुल्लक्षीवेति” ५५ तलोपो निपातनात् ।) सुरामत्तः यथा “मत्ते शौण्डोत्कट-क्षीवाः” इत्यमरः २३
दन्त्योष्ठ-वकारान्तोऽयम्
(यथा, रामायणे ६० १२ ।“उन्मत्तभूताः प्लवगा मधुपानप्रहर्षिताः ।क्षीवाः कुर्व्वन्ति हास्यं कलहांश्च तथाऽपरे”
)