| YouTube Channel

क्षीरोद (kSIroda)

 
शब्दसागरः
English
क्षीरोद
m.
(-दः) The sea of milk.
E.
क्षीर milk, and उद water: it also
implies the sea in general.
Capeller Eng
English
क्षीरोद
m.
= क्षीरसमुद्र.
Yates
English
क्षीरोद (दः) 1.
m.
The sea of milk.
Wilson
English
क्षीरोद
m.
(-दः) The sea of milk.
E.
क्षीर milk, and उद water
it also implies the sea in general.
Monier Williams Cologne
English
क्षीरोद a
m.
(Pāṇ. vi, 3, 57,
Vārtt.
) (= °र-धि) the ocean of milk,
MBh.
Hariv.
12834
R.
Suśr.
Kum.
BhP.
क्षीरोद b
Nom.
P.
°दति to become the ocean of milk,
Subh.
Macdonell
English
क्षीरोद kṣīra‿uda,
m.
ocean of milk
-dhi, 🞄m. id.
-ūrmi,
m.
f.
wave of the ocean of milk.
Shabdartha Kaustubha
Kannada
क्षीरोद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ಷೀರಸಮುದ್ರ
निष्पत्तिः - > उदकस्योदादेशः (६-३-५७)
व्युत्पत्तिः - > क्षीरमुदकं यस्य
प्रयोगाः - > "चन्द्रं विना तदुपलम्भनहेतुभूतं क्षीरोदमाश्रयति किं तृषितश्चकोरः"
उल्लेखाः - > चं० रा०
L R Vaidya
English
kzIra-uda {% m. %} the sea of milk, क्षीरोदवेलेव सफेनपुंजा K.S.vii.26.
Edgerton Buddhist Hybrid
English
Kṣīroda, n. of a nāga king: Mmk 〔18.12〕.
Mahabharata
English
Kshīroda^1 (“the ocean of milk”). § 11 (Parvasaṅgr.): I, 2, 366 (ºmanthanaṃ, cf. § 28 (Amṛtamanthana)).--§ 535 (Setubandhana): III, 283, 16289 (sāgaraṃ).--§ 575 (Bhūmip.): VI, 11, 410 (sāgaraḥ).--§ 717c (Uparicara): XII, 337, 12774 (Meror uttarabhāge Kºsyānukūlataḥ, there Ekata, Dvita, and Trita performed austerities).-§ 717b (Nārāyaṇīya): XII, 340, 13001 (amṛtāśayaṃ)
341, 13032 (ºsyānukūlataḥ, there Vyāsa performed austerities), 13051 (ºsyottaraṃ kūlaṃ).--§ 717d (Brahma-Rudrasaṃv.): XII, 351, 13721 (ºsamudrasya madhye, there the mountain Vaijayanta is situated).--§ 730g (Upamanyu): XIII, 14, 832 (sāgaraṃ), 917 (sāgarānāṃ, i.e. Śiva), 951 (sāgaraḥ). Cf. Kshīrodadhi.
Kshīroda^2 = Śiva (1000 names^1).
शब्दकल्पद्रुमः
Sanskrit
क्षीरोदः,
पुं,
(क्षीर + “उदकस्योदः संज्ञायाम्” ।६ ५७ “उत्तरपदस्य चेति व्यक्तव्यम्” ।इति वार्त्तिकम् ।) दुग्धसमुद्रः इत्यमरः १०
(यथा, महाभारते १३ १४ ३५३ ।“अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।क्षीरोदसागरश्चैव यत्र यत्रेच्छसि प्रियम्”
)तस्य मन्थनं यथा, --“मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम्
अहञ्च तत्र साहाय्यं करिष्यामि दिवौकसः ।भविष्यत्यमृतं तत्र तत्पानाद्बलवत्तराः
भविष्यन्ति क्षणादेव अमृतस्य प्रभावतः ।यूयं सर्व्वे महावीर्य्या भुञ्जिष्ठा रणविक्रमाः
इन्द्राद्यास्तु महोत्साहाः स्थानलब्धा महानरीन् ।ततो हि दानवान् जेतुं समर्था नात्र संशयः
इत्युक्ता देवदेवेन देवाः सर्व्वे जगत्पतिम् ।प्रणम्यागत्य निलयं सन्धिं कृत्वाथ दानवैः
ओराब्धिमथने सर्व्वे चक्रुरुद्योगमुत्तमम् ।बलिना चोद्धृतो राजन् मन्दराख्यो महागिरिः
क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम ! ।सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ
वासुकिश्च ततस्तत्र राजन् ! नारायणाज्ञया ।सर्व्वदेवहितार्थाय विष्णुश्च स्वयमागतः
ततो विष्णुसमादेशात्तत्र सर्व्वे सुरासुराः ।समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम् ।ततो मथितुमारब्धा नृपते ! तरसाऽमृतम्
विष्णुना मुखभागे तु वासुकेर्दानवाः कृताः ।देवास्य पुच्छभागे तु मन्थनार्थं नियोजिताः
एवन्तु मन्थनात्तत्र मन्दरोऽथ प्रविश्य वै ।आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः
सर्व्वलोकहितार्थाय कूर्म्मरूपमधारयत् ।आत्मानं संप्रवेश्याथ मन्दरस्य गिरेरधः
प्रविश्य धृतवान् शैलं पृथग्रूपेण केशवः ।उपर्य्याक्रान्तवान् शैलं पृथग्रूपेण केशवः
चकर्ष नागराजानं देवैः साद्ध जनार्दृनः ।असुरैरदृश्यरूपेण दैत्यमध्ये केशवः
ततस्ते तु त्वरायुक्ता ममन्थुः क्षीरसागरम्
यावच्छक्त्या नृपश्रेष्ठ ! बलवन्तः सुरासुराः
मथ्यमानात् ततस्तस्मात् क्षीराब्धेरभवन्नृप ।कालकृटमिति ख्यातं विषमत्यन्तदुःसहम्
तन्नागा जगृहुः सर्व्वे तच्छेषं शङ्करोऽग्रहीत् ।नारायणाज्ञया तेन नीलकण्ठत्वमाप्नुयात्
ऐरावतश्च नागेन्द्रो हयश्चोच्चैःश्रवाः पुनः ।द्वितीयावर्त्तनाद्राजन्नुत्पन्नाविति नः श्रुतम्
तृतीयावर्त्तनादप्सरोगणो जातः सुशोभनः ।चतुर्थात् पारिजातश्च उत्पन्नः महातरुः
पञ्चमात् हिमगुस्तस्मात् उत्थितः क्षीरसागरात् ।तं भवः शिरसा धत्ते नारी स्वस्तिको नृप
नानाविधानि रत्नानि दिव्यान्याभरणानि ।क्षीरोदधेस्तूत्थितानि गन्धर्व्वाश्च सहस्रशः
एतान् दृष्ट्वा तदोत्पन्नान् नित्याश्चर्य्यसमन्विताः ।अभवन् जातहर्षास्ते तत्र सर्व्वे सुरासुराः
दैवपक्षे ततो मेघाः सत्यं वर्षन्ति संस्थिताः ।कृष्णाज्ञया तु वायुस्तु सुखं वाति सुरान् प्रति
विषनिश्वासवातेन वासुकेश्चार्कतापनात् ।निस्तेजसोऽभवन् दैत्या निर्व्वीर्य्याश्च महामते
ततः श्रीरुत्थिता तस्मात् क्षीरोदोद्धृतपङ्कजा ।विभ्राजमाना राजेन्द्र ! दिशः सर्व्वाः स्वतेजसा
ततस्तीर्थोदकैः स्नाता दिब्यवस्त्रैरलङ्कृता ।दिव्यगन्धानुलेपैस्तु सुमनोभिः सुपूजिता
देवपक्षं समासाद्य स्थिता क्षणमरिन्दम ! ।हरिवक्षःस्थलं प्राप्ता ततः सा कमलालया
ततोऽमृतघटं पूर्णं गृहीत्वा पयसोनिधेः ।धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप
दैत्याः श्रिया परित्यक्ता दुःखितास्तत्र ते पुनः ।आदायामृतघटं शीघ्रं ते जग्मुर्यथेच्छया
ततः स्त्रीरूपमकरोद्विष्णुदवहिताय वै ।आत्मानं नृपशार्दूल ! नार्य्या लक्षणसंयुतम्
ततो जगाम भगवान् स्त्रीरूपेण सुरान् प्रति ।दिव्यरूपान्तु तां दृष्ट्वा मोहितास्ते सुरद्विषः
अमृतपूर्णं घटं भूमौ हैमं संस्थाप्य सत्तम ।कामेन पीडिता ह्यासन्नसुरास्तत्र तत्क्षणात्
मोहयित्वा तु तानेवमसुरानवनीषते ! ।अमृतभाजनमादाय देवेभ्यः प्रददौ हरिः
तत् पीत्वा तु ततो देवा देवदेवप्रसादतः ।बलवन्तो महावीर्य्या रणे जग्मुर्महासुरान्”
इति नृसिंपुराणे ३६ अध्यायः
वाचस्पत्यम्
Sanskrit
क्षीरोद
पु०
क्षीरमिव स्वादु उदकं यस्य उदादेशः दुग्धस-मुदे “ततः श्रीरुत्थिता तस्मात् क्षीरोदात् धृतपङ्कजा”नृसिंहपु० क्षीरोदमन्थनकथा यथा“मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम् अहञ्चतत्र साहाय्यं करिष्यामि दिवौकसः! भविष्यत्यमृतं तत्रतत्पानाद्बलवत्तराः भविष्यथ क्षणादेव अमृतस्य प्रमा-वतः यूयं सर्व्वे महाबीर्य्या भुञ्जिष्ठा रणविक्रमाः ।इन्द्राद्यास्तु महोत्साहाः स्थानलब्धिसहानरीन् ।ततो हि दानवान् जेतुं समर्था नात्र संशयः इत्युक्तादेवदेवेन देवाः सर्व्वे जगत्पतिम् प्रणम्यागत्य निलयंसन्धिं कृत्वाथ दानवैः क्षीराब्धिमथने सर्व्वे चक्रु-रुद्योगमुत्तमम् बलिना चोद्धृतो राजन्! मन्दराख्योमहागिरिः क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम! ।सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ वासुकिश्चततस्तत्र राजन् नारायणाज्ञया सर्वदेवहितार्थाय विष्णुश्च स्वयमागतः तती विष्णुसमादेशात्तत्र सर्वे सुरा-सुराः समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः ।मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाऽथ वासुकिम् ततोमथितुमारब्धा नृपते! तरसाऽमृतम् विष्णुना मुखभागेतु वासुकेर्दानवाः कृताः देवाश्च पुच्छभागे तु मन्थ-नार्थं नियोजिताः एवन्तु मन्थनात्तत्र मन्दराधः प्र-विश्य वै आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः ।सर्वलोकहितार्थाय कूर्म्मरूपमधारयत् आत्मानं सं-प्रवेश्याथ मन्दरस्य गिरेरधः प्रविश्य धृतवान् शैलंपृथग्रूपेण केशवः उपर्य्याक्रान्तवान् शैलं पृथग्रूपेणकेशवः चकर्ष नागराजानं देवैः सार्द्धं जनार्द्दनः ।असुरादृश्यरूपेण दैत्यमध्ये केशवः ततस्ते तु त्वरा-युक्ता ममन्थुः क्षीरसागरम् यावच्छक्त्या नृपश्रेष्ठ!बलवन्तः सुरासुराः मय्यमाने ततस्तस्मात् क्षीराब्धेरभवन्नप! कालकूटमिति ख्यातं विषभत्यन्ततःसहम्”
Capeller
German
क्षीरोद u.
°धि
m.
das Milchmeer
Burnouf
French
क्षीरोद क्षीरोद
m.
(उद) la Mer-de-lait
cf.
क्षीराब्धि।