| YouTube Channel

क्षीरी (kSIrI)

 
Monier Williams Cologne
English
क्षीरी (ई),
f.
a dish prepared with milk,
Bhpr.
N.
of several plants containing a milky sap (Asclepia rosea, Mimosa Kauki, gigantic swallow-wort, Euphorbia,
&c.
),
L.
Wordnet
Sanskrit
Synonyms:
क्षीरी
noun
नैके वृक्षाः येषां क्षीरवत् निर्यासाः सन्ति
"क्षीरिणः वर्णनं सुश्रुतेन कृतम्"
Synonyms:
क्षीरी
noun
नैके वृक्षाः येषां क्षीरवत् निर्यासाः सन्ति
"क्षीरिणः वर्णनं सुश्रुतेन कृतम्"
शब्दकल्पद्रुमः
Sanskrit
क्षीरी, [न्]
पुं,
(क्षीरं क्षीरवन्निर्यासोऽस्त्यस्य, इनिः ।)क्षीरिकावृक्षः इति शब्दरत्नावली
(अस्य व्यवहारो यथा, कनकतैले ।“कनकक्षीरी शैला भार्गी दन्तीफलानि मूलञ्च ।जातिफलानि प्रवालसर्षपलशुनविडङ्गकरञ्जत्वक्
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः ।गुञ्जैरण्डवृहतीमूलकसुरसार्ज्जकफलानि
कुष्ठं पाठामुस्तं तुम्बुरुमूर्व्वा वचा सषडग्रन्थाः ।एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः
हरितालमवाक्पुष्प्री तुत्थं कम्पिल्लकोऽमृतासङ्गः ।सौराष्ट्रिकाससीसं दार्व्वीत्वक्सर्ज्जिकालवणम्
कल्कैरेतैस्तैलं करवीरकमूलकपल्लवकषाये ।सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्
स्थाप्यं कटुकालावूनि तत्सिद्धं तेनास्य मण्डलान्यास्त ।भिन्द्याद्भिषगभ्यङ्गात् क्रिमींश्च कण्डूं विनिहन्यात्”
इति कनकतैलम्
इति चरके चिकित्सास्थानेसप्तमेऽध्याये
यथा, मनुः २४६ ।“सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् ।शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान्”
)दुग्धिका इति शब्दचन्द्रिका
स्नुही अर्क-वृक्षः राजादनी दुग्धपाषाणः वटः प्लक्षः ।(अस्य पर्य्याया यथा, --“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः ।क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः”
इति भावप्रकाशस्य पूब्बखण्डे प्रथमे भागे
)सोमलता स्यालीवृक्षः इति राजनिर्घण्टः
क्षीरी, स्त्रीं, (क्षीर + अस्त्यर्थे अच् गौरादित्वात्ङीष् ।) क्षीरीवृक्षः इति शब्दरत्नावली
(पक्वान्नविशेषः तस्य पाकप्रणाली यथा, --“नारिकेलन्तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत् ।सिता गव्याज्यसंयुक्ते तत्पचेन्मृदुनाग्निना”
अस्या गुणाश्च ।“नारीकेलोद्भवा क्षीरी स्निग्धाशीतातिपुष्टिदा ।गुर्व्वो सुमधुरा वृष्या रक्तपित्तानिलापहा”
इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)
वाचस्पत्यम्
Sanskrit
क्षीरी स्त्री० क्षीर + अस्त्यर्थे अच् गौरा० ङीष् (शिरखोला)ख्याते वृक्षभेदे शब्दर०