| YouTube Channel

क्षीरिवृक्षः (kSIrivRkSaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षीरिवृक्षः,
पुं,
(क्षीरी क्षीरयुक्तः वृक्षः ।) क्षीरयुक्त-पञ्चप्रकारवृक्षः यथा, --“न्यग्रोधोदुम्बराश्वत्थपारिशप्लक्षपादपाः ।पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चलक्षणम्”
केचित्तु पारिशस्थाने “शिरीषं वेतसं परे” ।तदन्तीति शेषः अस्य गुणाः ।“क्षीरिवृक्षा हिमा वर्ण्या योनिरोगव्रणापहाः ।रूक्षाः कषाया मेदोघ्ना विसर्पामयनाशनाः ।शोथपित्तकफास्रघ्नाः स्तन्या भग्नास्थियोजकाः”
एषां त्वगुणाः ।“त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित्”
तेषां पत्रगुणाः ।“तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघ ।विष्टम्भाध्मानजित्तिक्तं कषायं लघुं लेखनम्”
इति राजनिर्घण्टः