| YouTube Channel

क्षीरवर्ग (kSIravarga)

 
Shabdartha Kaustubha
Kannada
क्षीरवर्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹಾಲಿನ ವರ್ಗ /ಔಷಧದ ಉಪಯೋಗಕ್ಕಾಗಿ ಅರ್ಹವಾದ ಹಾಲುಗಳು
व्युत्पत्तिः - > क्षीराणां वर्गः
विस्तारः - > ಹಸುವಿನ ಹಾಲು, ಆಡಿನ ಹಾಲು, ಒಂಟೆಯ ಹಾಲು, ಕುರಿಯ ಹಾಲು, ಎಮ್ಮೆಯ ಹಾಲು, ಕುದುರೆಯ ಹಾಲು, ಸ್ತ್ರೀಯ ಹಾಲು ಮತ್ತು ಆನೆಯ ಹಾಲು - ಇವು ಹಾಲುಗಳು ಕ್ಷೀರವರ್ಗಕ್ಕೆ ಸೇರಿದುವು. "गव्यमाजं तथा चौष्ट्रमाविकं माहिषं यत् अश्वायाश्चैव नार्याश्च करेणूनां यत्पयः ॥" - सुश्रुत० सूत्र० ४५-४७
वाचस्पत्यम्
Sanskrit
क्षीरवर्ग
पु०
त० सुश्रुतोक्ते क्षीरभेदसंघे यथा“गव्यमाजन्तथा चौष्ट्रमाविकं माहिषञ्च यत् अश्वा-याश्चैव नर्य्याश्च करेणूनाञ्च यत्पयः तत्त्वनेकौषधिर-सप्रसादं प्राणदं गुरु मधुरं पिच्छ्विलं शीतं स्निग्धंश्लक्ष्णं सरं मृदु सर्वप्राणभृतां तस्मात्स्यत्म्यं क्षीरमि-होच्यते तत्र सर्व्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जा-तिसात्म्यात् वातपित्तशोणितमानसविकारेष्वविरुद्धम् ।जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममद-दाहपिपासाहृद्वस्तिपाण्डुरोगग्रहणीदोषार्शःशूलोदाव-र्त्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लम-हरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनंमेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनंवृंहणंवमनं विरेचनञ्च तुल्यगुणत्वाच्चौजसो वर्द्धनमि-ति बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानाञ्चपथ्यतमम् गोक्षीरमनभिस्यन्दि स्निग्धं गुरु रसाय-नम् रक्तपित्तहरं शीतं मधुरं रसपाकयोः जीव-नीयं तथा वातपित्तघ्नं परमं स्मृतम् गव्यतुल्यगुणंत्वाजं विशेषाच्छोषिणां हितम् दीपनं लघु संग्राहिश्वासकासास्रपित्तनुत् अजानामल्पकायत्वात् कटुतिक्त-निषेवणात् नात्यम्बुपानाद्व्यायामात्सर्व्वव्याधिहरं पयः ।रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु शोफगुल्-मोदरार्शोघ्नं कृमिकुष्ठविषापहम् आविकं मधुरंस्निग्धं गुरु पित्तकफावहम् पथ्यं केवलवातेषु कासेचानिलसम्भवे महाभिस्यन्दि मधुरं माहिषं वह्नि-नाशनम् निद्राकरं शीतकरं गव्यात् स्निग्धतरंगुरु ।उष्णं चैकशफं बल्यं शाखावातहरं लघु नार्य्यास्तुमधुरं स्तन्यं कषायानुरसं हिमम् नस्याश्च्येतनयोःपथ्यंजीवनंलघु दीपनम् हस्तिन्या मधुरं वृष्यं क-षायानुरसं गुरु स्निग्धं स्थैर्य्यकरं शीतंचक्षुष्यं बल-वर्द्धनम् प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीत-लम् रात्रौ सोमगुणत्वाञ्च व्यायामाभावतस्तथा ।दिवाकराभितप्तानां व्यायामानिलसेवनात् वातानुलोमिश्रान्तिघ्नं चक्षुष्यंचापराह्णिकम् पयोऽभिस्यन्दि गुर्व्वा-मंप्रायशः परिकीर्त्तितम् तदेवोक्तं लघुतरमनभि-स्यन्ति वै शृतम् वर्जयित्वा स्त्रियाः स्तन्यमाममेव हितद्धितम् धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ।तदेवातिशृतंसर्वं गुरु वृंहणमुच्यते अनिष्टगन्धम-म्लञ्च विवर्णं विरसञ्च यत् वर्ज्यं सलवणं क्षीरं यच्चविश्रथितं भवेत्” भावप्र० अत्रविशेष उक्तस्तत्रैव दृश्य