क्षीरधेनुः (kSIradhenuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiक्षीरधेनुः
क्षीर-धेनुः -
दूध देने वाली गाय
शब्दकल्पद्रुमः
Sanskritक्षीरधेनुः, (क्षीरेण निर्म्मिता धेनुः ।) दानार्थ-क्षीरनिर्म्मितधेनुः । यथा, --होतोवाच ।“क्षीरधेनं प्रवक्ष्यामि तां निबोध नराधिप ! ।अनुलिप्ते महीपृष्टे गोमयेन मृपोत्तम ! ॥
गोचर्म्ममात्रमानेन कुशानास्तीर्य्य सर्व्वतः ।तत्रोपरि महाराज ! न्यसेत् कृष्णाजिनं बुधः ॥
तत्रोपरि कुण्डलिकां गोमयेन कृतामपि ।क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ॥
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ।प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥
मुखं गुडमयं तस्या जिह्वा शर्करया तथा ।फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ॥
इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम् ।ताम्रपृष्ठीं कांस्यदोहां पट्टसूत्रमयीं तथा ॥
पुच्छञ्च नृपशार्दूल ! नवनीतमयस्तनीम् ।स्वर्णशृङ्गां रौप्यखुरां पञ्चरत्नसमन्विताम् ॥
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि स्थापयेत् ।आच्छाद्य वंस्त्रयुग्मेन गन्धपुष्पैः समर्च्चयेत् ॥
धूपदीप्रादिकं कृत्वा ब्राह्मणाय निवेदयेत् ।आच्छाद्यालङ्कृतां कृत्वा मुद्रिकाकर्णकुण्डलैः ।पट्टकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥
अनेनैव तु मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
या धेनुः सर्व्वभूतानामित्यादि नरपुङ्गव ! ।आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
यो गृह्णाति पठेन्मन्त्रं ग्राहको राजसत्तम ! ॥
दीयमानां प्रयश्यन्ति ते यान्ति परमां गतिम् ॥
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः ।शतार्द्धमथवाप्यद्ध तथार्द्धञ्च यथेच्छया ॥
दत्त्वा धेनुं महाराज ! शृणु तस्यापि यत् फलम् ।षष्टिवर्षसहस्रन्तु रुद्रलोके महीयते ॥
पितृपितामहैः सार्द्धं ब्रह्मणो भवनं व्रजेत् ।दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ॥
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ।द्वादशादित्यसङ्काशे विमाने वरमण्डिते ॥
गीतवादित्रनिर्घोषैरप्सरोगणसेविते ।तत्रोष्य विष्णोः सौराज्यं विष्णसायुज्यतां व्रजेत् ॥
य इदं श्रावयेद्राजन् पठेद्वा भक्तिभावितः ।सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति” ॥
इति वाराहे श्वेतोपाख्याने क्षीरधेनुमाहात्म्य-नामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
