| YouTube Channel

क्षीज (kSIja)

 
शब्दसागरः
English
क्षीज r. 1st cl. (क्षीजति) To sound inarticulately, to sigh or groan as in
distress.
Wilson
English
क्षीज r. 1st cl. (क्षीजति) To sound inarticulately, to sigh or groan
as in distress.
Shabdartha Kaustubha
Kannada
क्षीज - अव्यक्ते शब्दे (भ्वा० पर० अक० से०) क्षीजति
पदविभागः - > धातुः
कन्नडार्थः - > ಅಸ್ಪಷ್ಟವಾಗಿ ಶಬ್ದ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षीज्
मूलधातुः:
क्षीज
धात्वर्थः:
अव्यक्ते शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्षीजति
धातुप्रदीपः
Sanskrit
क्षीजँ क्षीज अव्यक्ते_शब्दे
- क्षीजति अस्यानन्तरं कूजतिर्न निर्द्दिश्यते कूजतेः स्वरप्रयुक्तत्वात् पृथङ् निर्द्देशः अन्यस्त्वाह क्षीजकूजोः पृथक् करणादर्थभेदोऽनुसन्धेयः तथाहि कूजन्ति कपोता इत्युक्ते स्वनन्तीति गम्यते क्षीजति दासीत्युक्ते सखेदं स्वनतीति गम्यते ।एवमन्यत्रापि धातुभेदेऽर्थभेदोऽवगन्तव्यः ।। 234 ।।
शब्दकल्पद्रुमः
Sanskrit
क्षीज, हिक्कने इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) दीर्घी हिक्कनमव्यक्तशब्दः सखेद-स्यैवाव्यक्तशब्दे क्षीजेः प्रयोगः इति रक्षितः ।क्षीजति सखेदो जनः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
क्षीज अव्यक्तशब्दे
भ्वा०
पर०
अक० सेट् क्षीजति अक्षीजित् चिक्षीज
क्षीरतरङ्गिणी
Sanskrit
क्षीजँ क्षीज अव्यक्ते_शब्दे
-क्षीजति, चिक्षीज 232
धातुवृत्तिः
Sanskrit
क्षीजँ क्षीज (अर्थः) अव्यक्ते_शब्दे
( क्षीजति चिक्षीज क्षीजिता चिक्षीजिषति चेक्षीज्यते चेक्षीक्ति क्षीजयति अचिक्षिजत् ) "णौ चङ्यु'' इति ह्रस्वः कूजिना सहायं पिठतोऽप्रसिद्धत्वात् 234
कृदन्तरूपमाला
Sanskrit
1 {@“क्षीज अव्यक्ते शब्दे”@} 2 क्षीजकः-जिका, क्षीजकः-जिका, चिक्षीजिषकः-षिंका, चेक्षीजकः-जिका
क्षीजिता-त्री, क्षीजयिता-त्री, चिक्षीजिषिता-त्री, चेक्षीजिता-त्री
क्षीजन्-न्ती, क्षीजयन्-न्ती, चिक्षीजिषन्-न्ती
-- क्षीजिष्यन्-न्ती-ती, क्षीजयिष्यन्-न्ती-ती, चिक्षीजिषिष्यन्-न्ती-ती
-- -- क्षीजयमाणः, क्षीजयिष्यमाणः, चेक्षीज्यमानः, चेक्षीजिष्यमाणः
3 प्रक्षीक्-प्रक्षीजौ-प्रक्षीजः
-- -- -- क्षीजितम्-तः, क्षीजितः, चिक्षीजिषितः, चेक्षीजितः-तवान्
4 क्षीजः 5 क्षीजनः, क्षीजः, चिक्षीजिषुः, चेक्षीजः
क्षीजितव्यम्, क्षीजयित्यम्, चिक्षीजिषितव्यम्, चेक्षीजितव्यम्
क्षीजनीयम्, 6 क्षीजनीयम्, चिक्षीजिषणीयम्, चेक्षीजनीयम्
क्षीज्यम्, क्षीज्यम्, चिक्षीजिष्यम्, चेक्षीज्यम्
ईषत्क्षीजः-दुःक्षीजः-सुक्षीजः
-- -- क्षीज्यमानः, क्षीज्यमानः, चिक्षीजिष्यमाणः, चेक्षीज्यमानः
क्षीजः 7, क्षीजः, चिक्षीजिषः, चेक्षीजः
क्षीजितुम्, क्षीजयितुम्, चिक्षीजिषितुम्, चेक्षीजितुम्
8 क्षीजा, क्षीजना, चिक्षीजिषा, चेक्षीजा
क्षीजनम्, क्षीजनम्, चिक्षीजिषणम्, चेक्षीजनम्
क्षीजित्वा, क्षीजयित्वा, चिक्षीजिषित्वा, चेक्षीजित्वा
प्रक्षीज्य, प्रक्षीज्य, प्रचिक्षीजिष्य, प्रचेक्षीज्य
9 क्षीजम् २, क्षीजित्वा २, क्षीजम् २, क्षीजयित्वा २, चिक्षीजिषम् २, चिक्षीजिषित्वा २, चेक्षीजम्
चेक्षीजित्वा २।
प्रासङ्गिक्यः
01
=>
(३०९)
02
=>
(१-भ्वादिः-२३७। अक। सेट्। पर।)
03
=>
[[१। ‘चोः कुः’ (८-२-३०) इति पदान्ते कुत्वम्।]]
04
=>
[[२। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
05
=>
[[३। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति ताच्छील्ये युच्।]]
06
=>
[[४। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
07
=>
[[आ। ‘विस्फूर्जदक्षीणघनाघनोपमक्षीजा लजन्तः त्रिदशानलाञ्जितान्। लाजादिहोतृष्वपि लञ्जनप्रदा यस्मिन् विनेशुर्जजनेषु दानवाः।।’ धा। का। १। ३२।]]
08
=>
[[५। ‘गुरोश्च हलः’ (३-३-१०३) इति अकारप्रत्ययः।]]
09
=>
[पृष्ठम्०३२५+ २६]