| YouTube Channel

क्षिप्तः (kSiptaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षिप्तः, त्रि, (क्षिप् + कर्म्मणि क्तः ।) निक्षेपकृतवस्तु ।त्यक्तः तत्पर्य्यायः नुत्तः नुन्नः अस्तः ४निष्ठुतः विद्धः ईरितः इत्यमरः ।१ ८७
(उद्गीर्णः यथा, माघे ७३ ।“क्षिप्ता इवेन्दोः रुचोधिवेलंमुक्तावलीराकलयाञ्चकार”
कर्त्तरि क्तः पतितः यथा, माघे १० ७७ ।“क्षिप्तमायतमदर्शयदुर्व्यांकाञ्चिदामजघनस्य महत्वम्”
“रतेषु उर्व्यां क्षिप्तं पतितम्” इति मल्लिनाथः
हतः यथा, माधे ५३ ।“केशरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः”
अवज्ञातः यथा, भागवते १८ ४८ ।“तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि”
विस्रस्तः यथा, मार्कण्डेये ८८ १९ ।“नारसिंही नृसिंहस्य विभ्रती सदृशं वपुः ।प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः”
)वायुग्रस्तः क्षेपा इति भाषा इति लोक-प्रसिद्धः