| YouTube Channel

क्षिपन्-न्ती-ती (kSipan-ntI-tI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्षिप प्रेरणे”@} 2 ‘क्षिप्यति प्रेरणे, शे तु क्षिपति क्षिपते पदे।’ 3 इति देवः।
क्षेपकः-पिका, क्षेपकः-पिका, चिक्षिप्सकः-प्सिका, चेक्षिपकः-पिका, क्षेप्ता-त्री
4 क्षिपन् 5 -न्ती-ती, 6 अभिक्षिपन् 7 प्रतिक्षिपन्-अतिक्षिपन्-न्ती-ती
8 क्षिपमाणः, इत्यादीनि रूपाण्यस्येति विशेषः।
अन्यानि रूपाणि सर्वाण्यपि दैवादिकक्षिप्यतिवत् 9 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(३०७)
02
=>
(६-तुदादिः-१२८५। सक। अनि। उभ।)
03
=>
(श्लो। १३०)
04
=>
[[३। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य ङिद्वद्भावात् अङ्गस्य गुणः। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमो वैकल्पिकत्वम्। तेन रूपद्वयम्।]]
05
=>
[[C। ‘तुदन् कुचरिताञ् शुभे प्रणुदमान इष्टं दिशन् प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २-७२।]]
06
=>
[[ड्। ‘सुखाहरैर्वर्महरैः सगर्भ्यैः प्रलम्बमुख्यैश्च सहाश्रवैस्तैः। अभिक्षिपन् अक्षमकोऽर्चनार्हान् दृष्ट्वा स्वसुर्दीप्तिमखिन्त कंसः।।’ वा। वि। २-५९।]]
07
=>
[[४। ‘अभिप्रत्यतिभ्यः क्षिपः’ (१-३-८०) इत्यनेन कर्तृगामिनि क्रियाफलेऽपि परस्मै- पदमेव। शानच्। तेन शतरि रूपम्।]]
08
=>
[पृष्ठम्०३२३+ २७]
09
=>
(३०६)