| YouTube Channel

क्षित्यदिति (kSityaditi)

 
शब्दसागरः
English
क्षित्यदिति
f.
(-तिः) The mother of KRISHNA.
E.
क्षिति the earth, and अदिति
the mother of the gods
the terrestrial parent of divinity.
Yates
English
क्षित्य-दिति (तः) 2.
f.
Krishna's
mother.
Wilson
English
क्षित्यदिति
f.
(-तिः) The mother of KṚṢṆA.
E.
क्षिति the earth, and अदिति the mother of the gods
the
terrestrial parent of divinity.
Monier Williams Cologne
English
क्षित्य्—अदिति
f.
‘the Aditi of the earth’,
N.
of Devakī (mother of Kṛṣṇa),
L.
Shabdartha Kaustubha
Kannada
क्षित्यदिति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭೂಮಿಯ ಅದಿತಿ /ದೇವಕಿ
शब्दकल्पद्रुमः
Sanskrit
क्षित्यदितिः,
स्त्री,
(क्षितौ अदितिः देवमातुरदित्याःपृथिव्यां देवकीरूपेणाविर्भावात्तथात्वम् ।) देवकी ।इति त्रिकाण्डशेषः
(एतद्विवरणं यथा, --हरिवंशे ५५ अध्याये ।वैशम्पायन उवाच ।“नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।प्रत्युवाच शुभं वाक्यं देवानां प्रभुरीश्वरः
त्रैलोकस्य हितार्थाय यन्मां वदसि नारद ! ।तस्य सम्यक् प्रवृत्तस्य श्रूयतामुत्तरं वचः
विदिता देहिनो जाता मयैते भुवि दानवाः ।याञ्च यस्तनुमास्थाय दैत्यः पुष्यति विग्रहम्
जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि ।केशिनञ्चैव जानामि दैत्यं तुरगरूपिणम्
नागं कुवलयापीडं मल्लौ चानूरमुष्टिकौ ।अरिष्टञ्चैव जानामि दैत्यं वृषभरूपिणम्
विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।सा मे विदिता विप्र ! पूतना दुहिता बलेः
कालियञ्चैव जानामि यमुनाह्रदगोचरम् ।वैनतेयभयाद् यस्तु यमुनाह्रदमाविशत्
विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् ।प्राग्ज्योतिषपुरे चापि नरकं साधु तर्कये
मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।वाणञ्च शोणितपुरे गुहप्रतिमतेजसम्
दृप्तं बाहुसहस्रेण देवैरपि सुदुर्ज्जयम् ।मय्यासक्ताञ्च जानामि भारतीं महतीं धुरम्
तच्च सर्व्वं विजानामि यथा यास्यन्ति ते नृपाः ।क्षयो भुवि मया दृष्टः शक्रलोके सत्क्रिया
तेषां पुरुषदेहानामपरावृत्तिवर्त्तिनाम् ।सम्प्रवेक्ष्याम्यहं योगमात्मनश्च पंरस्य
सम्प्राप्य मानुषं लोकं मानुषत्वमुपागतः ।कंसादींस्तांश्च सर्व्वांश्च वधिष्यामि महासुरान्
तेन तेन विधानेन येन यः शान्तिमेष्यति ।अनुप्रविश्य योगेन तास्ता हि गतयो मया
अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ।जगत्यर्थे कृतो योऽयमंशोत्सर्गो महात्मभिः
सुरदेवर्षिगन्धर्व्वैरितश्चानुमते मम ।विनिश्चयो हि प्रागेव नारदायं कृतो मया
निवासं तत्र मे ब्रह्मा विदधातु पितामहः
यत्र देशे यथा जातो येन वेशेन वा वसन्
तानहं समरे हन्यां तन्मे ब्रूहि पितामह !
ब्रह्मोवाच ।नारायणेमं सिद्धार्थमुपायं श्रृणु मे विभो ! ।भुवि यस्ते जनयिता जननी भविष्यति
यत्र त्वं महावाहो जातः कुलकरो मुवि ।यादवानां महद्वंशमखिलं धारयिष्यसि
तांश्चासुरान् समुत्पाट्य वंशं कृत्वात्मनो महत् ।स्थापयिष्यसि मर्य्यादां नृणां तन्मे निशामय
पुरा हि कश्यपो विष्णो ! वरुणस्य महात्मनः ।जहार यज्ञिया गा वै पयोदाश्च महामखे
अदितिः सुरभिश्चैव द्वे भार्य्ये कश्यपस्य तु ।प्रदीयमाना गास्तास्तु नेच्छेतां वरुणस्य
ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा नतः
उवाच भगवन् ! गावो गुरुणा मे हृता इति
कृतकार्य्यो हि गास्तात ! नानुजानाति मे गुरुः ।अन्ववर्त्तत भार्य्ये द्वे अदितिं सुरभिन्तथा
मम ता ह्यक्षया गावो दिव्याः कामदुघाः प्रभो ! ।चरन्ति सागरान् सर्व्वान् रक्षिताः स्वेन तेजसा
कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।अक्षयं याः क्षरन्त्यग्र्यं पयो देवामृतोपमम्
प्रभुर्व्वा व्युत्थितो ब्रह्मन् गुरुर्व्वा यदि वेतरः ।त्वया नियम्याः सर्व्वे वै त्वं हि नः परमा गतिः
यदि प्रभवतां दण्डो लोके कार्य्यमजानताम् ।न विद्यते लोकगुरो ! नासते लोकसेतवः
यथा वास्तु तथा वास्तु कर्त्तव्यो भगवान् प्रभुः ।मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम्
आत्मा मम हि ता गावो या गावः सत्त्वमव्ययम् ।लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम्
त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति या द्विजान् ।गोब्राह्मणपरित्राणात् परित्रातं जगत् भवेत्
इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ! ।गवां कारणतत्वज्ञः कश्यपे शापमुत्सृजम्
येनांशेन हृता गावः कश्यपेन महात्मना ।स तेनांशेन तु महीं गत्वा गोपत्वमेष्यति
या सा सुरभिर्नाम अदितिश्च सुरारणी ।ते प्युभे तस्य भार्य्ये वै तेनैव सह यास्यतः ।स ताभ्यां सह गोपत्वे कश्यपो भुवि रंस्यते
तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ।वसुदेव इति ख्यातो गोषु तिष्ठति भूतले
गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः ।तत्रासौ गोष्वभिरतः कंसस्य करदायकः
तस्य भार्य्याद्वयञ्चैव अदितिः सुरभिस्तथा ।देवकी रोहिणी चैव वसुदेवस्य धीमतः
तत्रावतर लोकानां भवाय मधुसूदन ! ।जयाशीर्व्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः
आत्मानमात्मना हि त्वमवतार्य्य महीतले ।देवकीं रोहिणीञ्चैव गर्भाभ्यां परितोषय”
)
वाचस्पत्यम्
Sanskrit
क्षित्यदिति स्त्री क्षितौ स्मदितिः क्षितौ अदितेरवतारेदेवक्यां वसुदेवपत्न्याम तत्कथा हरिव० ५६ अ० ।“या सा सुरभिनाम अदितिश्च सुरारणी उभे तेतस्य वै भार्य्ये सह तेनंव यास्यतः ताभ्यां सह सगोपत्वे कश्यपो भुवि रंस्यत तदस्य कश्यपस्यांशस्ते-जसा कश्यपोपमः वसुदेव इति ख्यातो गोषु तिष्ठतिभूतले गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः ।तत्रासौ गोष्वभिरतः कंसस्य परदायकः तस्य भार्य्या-द्वयञ्चैव अदितिः सुरभिस्तथा देवकी रोहिणी चैव-पसुदेवस्य धीमतः तत्रावतर लोकानां भावाथमधुसूदन! विष्णु० प्रति ब्रह्मोक्तिः