| YouTube Channel

क्षितिमृत् (kSitimRt)

 
वाचस्पत्यम्
Sanskrit
क्षितिमृत्
पु०
क्षितिं बिभर्त्ति धारयति पालयति भृ धारणपोषणयोः क्विप भूधरे पर्वते “क्षितिभृदिव क्षिति-कम्पकीर्णङ्कङ्गः” भट्टिः महीपाले राजनि “अधुनाधनैः क्षितिभृतेऽतिभृताः” किरा० भूभृदादयोऽप्यत्र ।“प्रमथितभूमृतः प्रतिपदं मथितस्य भृशं महीभृता” माघः