| YouTube Channel

क्षितिपुत्त्रः (kSitiputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षितिपुत्त्रः,
पुं,
(क्षितेः पृथिव्याः पुत्त्रः।) नरकराजः ।(पुरा किल सिद्धेश्वरकपिलदेवकोपेन रसातल-गतां भगवतीं क्षितिमुद्धर्त्तुं भगवान् विष्णुः वराह-रूपेणावतीर्णः सन् तत्र दुर्द्दान्तं दितिनन्दनंहिरण्याक्षं निपात्य रसातलात्तामुद्धृत्य तस्यामेवधरायां नरकनामानं पुत्त्रमुत्पादयामास ।) यथा, --“स तीरे नदराजस्य लौहित्यस्य महात्मनः ।ब्रह्मार्च्चनं समारभ्य तपस्तप्तुमुपस्थितः
मानुषेण मानेन क्षितिपुत्त्रः शतं समाः ।जलाहारव्रतेनैव समानर्च्च पितामहम्
तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः”
इति कालिकापुराणे ३८ अध्यायः
अन्यत् नरक-शब्दे द्रष्टव्यम्
(मङ्गलग्रहः इति ज्योतिस्तत्वम्
)