| YouTube Channel

क्षितिजं (kSitijaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षितिजं,
क्ली,
(क्षिति + जन् + डः ।) खगोलेआकाशमध्यान्नवत्यंशान्तरे तिर्य्यग्वृत्तम् यथा, --“पर्ब्बापरं विरचयेत् सममण्डलाख्यंयाम्योत्तरञ्च विदिशोर्व्वलयद्वयञ्च ।ऊर्द्ध्वाध एवमिह वृत्तचतुष्कमेत-दावेष्ट्य तिर्य्यगपरं क्षितिजं तदर्द्धे”
इति सिद्धान्तशिरोमणौ गोलबन्धाधिकारः