| YouTube Channel

क्षिणु (kSiNu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्षिण्
मूलधातुः:
क्षिणु
धात्वर्थः:
हिंसायाम्
गणः:
तनादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
क्षिणोति, क्षिणुते
धातुप्रदीपः
Sanskrit
क्षिणुँ क्षिणु
- हिंसायामित्यपेक्षते क्षिणोति क्षिणुते संज्ञापूर्वको विधिरनित्य इति विकरणापेक्षः लघूपधगुणो भवति (1) चिक्षेण चिक्षिणे क्षेणिष्यति क्षेणिष्यते अक्षेणीत् अक्षेणिष्ट अक्षित चिक्षिणिषति [चिक्षिणिषते] क्षेणयति चेक्षिण्यते चेक्षेन्ति (2) क्षितः क्षितिः क्षिणित्वा क्षेणित्वा क्षित्वा 4
धातुवृत्तिः
Sanskrit
क्षिणुँ क्षिणु (अर्थः)
हिंसायामित्यर्थः ( क्षिणोति क्षिणुते चिक्षेण चिक्षिणे क्षेणितासे क्षेणिष्यति क्षेणिष्यते क्षिणोतु क्षिणुताम् अक्षिणोत् अक्षिणुत क्षिणुयात् क्षिण्वीत क्षिण्यात् क्षि ( 1 ) ( 1 ) क्षीणिषीष्टेति पुस्तकान्तरे पाठः अक्षेणीत् अक्षित अक्षेणिष्ट अक्षिणिष्ठाः ) पूर्ववत्पाक्षिके सिज्लुक्यनुनासिकलोपः ( चिक्षिणिषति क्षेणयति क्षिणित्वा क्षेणित्वा) "रलो व्युपधात्'' इति कित्त्वविकल्पः क्त्वायामुदित्त्वादिडभावे तु ( क्षित्वा ) तनोत्यादित्वादनुनासिकलोपः ( चेक्षिण्येते चेक्षेणित ) चेक्षेण्ति ) अयमपि तवर्गीयोपदेशः णत्वन्तु लाक्षणिकमितीह क्षणिवदनुस्वारीभूतो णत्वमतिक्रामति ( क्षितः ) "यस्य विभाषा'' इत्यनिट्त्वम् ( क्षितिः ) "तितुत्र'' इत्यनिट्त्वम्, अत्र सर्वत्र पिद्वचनेषुविकरणापेक्षो गुणः "संज्ञापूर्वको विधिरनित्य'इति भवतीत्यात्रेयमैत्रेयौ तथा चापिशलिः शब्विकरणेषु धातुगुणमभिधाय करोतेश्च मिदेश्चेत्यसूत्रयत्, "पुगन्तलघूपधस्यच'' इत्यत्र रक्षितेन चोक्तम् एवञ्च पञ्चबाणः क्षिणोतीति सिद्ध्यति शाब्दिकाभरणे तु गुण एवोदाहृतः शाकटायनक्षीरस्वामिभ्यामयं धातुर्न पठ्यते अत एवात्रेयमैत्रेयाभ्यामपि स्वादेश्छान्दसेषु पठितस्य क्षेर्धातोर्भाषायामपि प्रयोगाङ्गीकारेण क्षेणेतीति साधितम् शाकटायनः पुनस्यत्र छान्दसमेवाह इहापि क्षिणुं पपाठेति तन्मते क्षिणोतिप्रयोगो भाषायामसाधुरेव 4
कृदन्तरूपमाला
Sanskrit
1 {@“क्षिणु हिंसायाम्”@} 2 क्षेणकः-णिका, क्षेणकः-णिका, 3 चिक्षेणिषकः-चिक्षिणिषकः-षिका, चेक्षिणकः-णिका
क्षेणिता-त्री, क्षेणयिता-त्री, चिक्षेणिषिता-चिक्षिणिषिता-त्री, चेक्षिणिता-त्री
4 क्षेण्वन्-ती, क्षेणयन्-न्ती, चिक्षेणिषन्-चिक्षिणिषन्-न्ती
-- क्षेणिष्यन्-न्ती-ती, क्षेणयिष्यन्-न्ती-ती, चिक्षेणिषिष्यन्-चिक्षिणिषिष्यन्-न्ती-ती
क्षेण्वानः, क्षेणयमानः, चिक्षेणिषमाणः-चिक्षिणिषमाणः, चेक्षिण्यमानः
क्षेणिष्यमाणः, क्षेणयिष्यमाणः, चिक्षेणिषिष्यमाणः-चिक्षिणिषिष्यमाणः, चेक्षिणिष्यमाणः
5 प्रक्षीण्-प्रक्षीणौ-प्रक्षीणः
-- -- -- 6 7 क्षितम्-तः, क्षेणितः, चिक्षेणिषितः-चिक्षिणिषितः, चेक्षिणितः-तवान्
8 क्षिणः, क्षेणः, चिक्षेणिषुः-चिक्षिणिषुः, चेक्षिणः
क्षेणितव्यम्, क्षेणयितव्यम्, चिक्षेणिषितव्यम्-चिक्षिणिषितव्यम्, चेक्षिणितव्यम्
क्षेणनीयम्, 9 क्षेणनीयम्, चिक्षेणिषणीयम्-चिक्षिणिषणीम्, चेक्षिणनीयम्
क्षेण्यम्, क्षेण्यम्, चिक्षेणिष्यम्-चिक्षिणिष्यम्, चेक्षिण्यम्
ईषत्क्षेणः-दुःक्षेणः-सुक्षेणः
-- -- क्षिण्यमानः, क्षेण्यमानः, चिक्षेणिष्यमाणः-चिक्षिणिष्यमाणः, चेक्षिण्यमानः
क्षेणः, क्षेणः, चिक्षेणिषः-चिक्षिणिषः, चेक्षिणः
क्षेणितुम्, क्षेणयितुम्, चिक्षेणिषितुम्-चिक्षिणिषितुम्, चेक्षिणितुम्
10 क्षितिः 11, क्षेणना, चिक्षेणिषा-चिक्षिणिषा, चेक्षिणा
क्षेणनम्, क्षेणनम्, चिक्षेणिषणम्-चिक्षिणिषणम्, चेक्षिणनम्
12 क्षेणित्वा-क्षिणित्वा-क्षित्वा, क्षेणयित्वा, चिक्षेणिषित्वा-चिक्षिणिषित्वा, चेक्षिणित्वा
13 प्रक्षित्य, प्रक्षेण्य, प्रचिक्षेणिष्य-प्रचिक्षिणिष्य, प्रचेक्षिण्य
क्षेणम् २, क्षेणित्वा २, क्षिणित्वा २, क्षित्वा २, क्षेणम् २, क्षेणयित्वा २, चिक्षेणिषम् -चिक्षिणिषम् २, चिक्षेणिषित्वा -चिक्षिणिषित्वा २, चेक्षिणम्
चेक्षिणित्वा २। 14
प्रासङ्गिक्यः
01
=>
(३०५)
02
=>
(८-तनादिः-१४६६। सक। सेट्। उभ।)
03
=>
[[४। ‘रलो व्युपधाद्धलादेस्संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पात् पाक्षिको गुणः।]]
04
=>
[[५। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इति विकरणप्रत्यय उकारः। गुणः। केचित्तु ‘संज्ञापूर्वको विधिरनित्यः’ (परिभाषा-९५) इत्याश्रित्य गुणरहितं ‘क्षिण्वन्’ इति रूपमाहुः।]]
05
=>
[[६। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति उपधायाः दीर्घः।]]
06
=>
[पृष्ठम्०३२०+ २१]
07
=>
[[१। ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इति अनुनासिकलोपः। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायाः इण्ण।]]
08
=>
[[२। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
09
=>
[[३। ‘णेरनिटि’ (६-४-५१) इति ण्यन्तादनीयरि णेर्लोपः।]]
10
=>
[[४। ‘तितुत्र--’ (७-२-९) इत्यादिना इण्णिषेधः। ‘अनुदात्तोप--’ (६-४-३७) इति णकारस्य लोपः।]]
11
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसः तृणीकृतरिपुः घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
12
=>
[[५। ‘उदितो वा’ (७-३-५६) इति क्त्वायामिड्विकल्पः। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। इडभावपक्षे अनुनासिकलोपः। तेन रूपत्रयम्।]]
13
=>
[[६। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् तनोत्यादीनां ल्यपि नित्यमनुनासिकलोपः। तुक् भवति।]]
14
=>
[पृष्ठम्०३२१+ ३०]