| YouTube Channel

क्षाराष्टकं (kSArASTakaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्षाराष्टकं,
क्ली,
(क्षाराणां अष्टकम् ।) अष्टप्रकार-क्षारः तद्यथा, --“पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः ।यवजः सर्ज्जिका चेति क्षाराष्टकमुदाहृतम्
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम्”
इति भावप्रकाशः