| YouTube Channel

क्षारसिन्धुः (kSArasindhuH)

 
शब्दकल्पद्रुमः
Sanskrit
क्षारसिन्धुः,
पुं,
(क्षारैर्युक्तः क्षारप्रधानः सिन्धुर्वा ।)लवणसमुद्रः तु जम्बुद्वीपस्य दक्षिणे शाक-द्वीपस्य उत्तरे वर्त्तते यथा, --“भूमेरर्द्धं क्षारसिन्धोरुदकस्थंजम्बुद्वीपं प्राहुराचार्य्यवर्य्याः ।अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्येक्षारक्षीराद्यम्बधीनां निवेशः
शाकं ततः शाल्मलमत्र कौशंक्रौञ्चञ्च गोमेदकपुष्करे ।द्वयोर्द्वयोरन्तरमेकमेकंसमुद्रयोर्द्वीपमुदाहरन्ति”
इति सिद्धान्तशिरोमणौ गोलाध्यायः